SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ संस्कारपद्धतौभूतं वाग्दानमहं करिष्ये तदङ्ग गणेशपूजनं च करिष्य इति संकल्प्य गन्धादिदक्षिणान्तोपचारगणपति संपूज्य यथाचारं कलशपूजनादि कृत्वा स्वस्थाने कन्यापूजयितारमुपयेश्य स्वयं तत्माच्या प्रत्यङ्मुस उपविश्य गन्धताम्बूलादिना पूजयेत् । स च दातारम् । तौ च स्वस्य मान्यान्यथाचारं दापयित्वा गृह्णीयाताम् । ततः कन्यादाता हरिद्राखण्ड पश्च दृढपूगफलानि गन्धाक्षतसहितानि चाऽऽचाराद्गृहीत्वाऽमुकपवरावितामुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकपुत्रीममुकनानी कन्यां व्योतिर्विदादिष्टे मुहूर्ते दास्ये । वाचा संप्रदद इति चोक्त्वा अव्यङ्गेऽपलितेऽक्लीवे दशदोपविवर्जिते । इमां कन्यां प्रदास्यामि देवाग्निद्विजसंनिधौ ।। इति: पठित्वा वरपित्रादिवत्रपान्ते तानि पूगफलानि प्रक्षिप्य नर्य प्रजामिति प्रतिष्ठामन्त्रेण वस्त्रप्रान्ते बद्ध्वा ग्रन्थि च दत्त्वा चन्दनादिना चर्चयेत् । ततो हरिद्राखण्डं पञ्चपूगफलानि तथैव वरपित्रादिहीत्वाऽ. मकबरान्वितामुकगोत्रोत्पन्नामुकवरविषये निश्चिता भवन्त्यिति दातृवस्त्रप्रान्ते प्रक्षेपादि कुर्यात् । ततः कन्यादाता वाचा दत्ता मया कन्या पुत्रार्थ स्वीकृता त्वया । कन्यावलोकन विधौ निश्चितस्त्वं सुखी भव ।। इति वरपितरं प्रति पठेत् । स च-- वाचा दत्ता त्वया कन्या पुत्रार्थ स्वीकृता मया। वरावलोकनविधी निश्चितस्त्वं सुखी भव ।। इति कन्यापितरं प्रति पठेत् । ब्राह्मणाः शिवा आपः सन्तु । सौमनस्यमरतु । अक्षतं चारिष्टं चास्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुटिश्चास्तु । एतदः सत्यमस्त्विति वदेयुः। ततः कन्या विवाहसौभाग्याद्यभिवृद्धयर्थं शचीपूजनमहं करिष्य इति संकल्य पात्रस्थसिततण्डुलपुञ्जे शचीमावास्य पञ्चोपचारैः पूजयेत् । देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि । विवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे।। इति शची संप्रार्थ्य सुवासिनीभिन राजनादिमाङ्गलिक कार्यम् । विप्राश्च गन्धताम्बूलादिभिः पूजिता आशीमन्त्रान्पठेयुः सौभमपदा• सांथ । ते च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy