SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०४ संस्कारपद्धतौहरिद्रादिमङ्गलद्रव्यैरुद्वर्तनपूर्वकमुष्णोदकेन यथाचार संस्नाप्य तच्छिष्टद्रध्यैरुद्वर्तनपूर्वकं तथैव वरं संस्नापयेयुरित्याचारः । ततः कन्यादाता विवाहदिने तत्पूर्वदिने वा पूर्वाह्न कृतमाङ्गलिकस्नानो धृतमाङ्गलिकवेष उपलिप्ते रङ्गवल्लिकायुक्ते प्राङ्गणे शुभवस्वाच्छादिते पीठासने प्राङ्मुख उपविश्य स्वस्य दक्षिणतः कृतमाङ्गलिकस्नानां धृतमाङ्गलिकवेषां पत्नी तस्या दक्षिणतस्तथाभूतां कन्यां चोपवेश्याऽऽचम्य प्राणानायम्ये. टदेवतागुर्वादीनमस्कृत्य देशकालौ संकीर्त्य ममास्या अमुकनाम्न्याः कन्याया ब्राह्मविवाहविधिना विवाहसंस्कारं करिष्य इति संकल्प कुर्यात् । वरपिता त्वस्यामुकशर्मणः पुत्रस्य विवाहसंस्कारं करिष्य इत्येवं संकल्पं कुर्यात् । ततो गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं मण्डपदेवताप्रतिष्ठापनं च कुर्यात् । अत्रानिः प्रीयतामिति विशेषः । अडरारोपणग्रहमखौ तु पूर्व पृथगेव यथावकाशं कार्यों । न तु नान्दीश्राद्धोत्तरं कर्तव्यतानियमः । तत उभावपि मण्डपदेवताप्रति. ष्ठापनानन्तरं विवाहाङ्गदेवताकुलदेवताप्रीत्यर्थ यथाचारं द्विजसुवासिनीः कुमारादीन्यथाकालं यथोपपनेनानेन भोजयेताम् । एवमन्येऽपि वृद्ध पारम्पगिता उच्चावचा देशधर्मा ग्रामधर्माः कुलधर्माश्चात्र कर्तव्याः । अथ वरवरणम् – यस्मिन्कस्मिाश्चिच्छुभे मुहूर्ते कन्यावरणात्पूर्वमनन्तरं वा यः कश्चिदृद्धः कन्यापक्षीयो वरपितरं प्रति ब्रूयात् । एतस्याः कन्यायास्त्वत्पुत्रं भर्तृत्वेन स्वीकर्तुं महद्भिः सहाहमागतो भवद्भिर्वरपूजनार्थमनुज्ञा देयेति । ततो वरपिता दत्ता मयाऽनुज्ञेति वदेत् । ततः पुरोहितादिश्चत्तुष्पादे शुभवस्वाच्छादिते पीठासने ॐ अनृक्षरा० स्वस्ति न इन्द्रो इति मन्त्राभ्यां प्राङ्मुखं शुक्लवस्त्रं सालंकारं सुवेषं वरमुपवेशयेत् । ततः कन्यापिता वरस्य पुरोभागे प्रत्यङ्मुख उपविश्य वरपित्रादिसमीपे गणपत्यादिस्मरणपूर्वकममुकावरान्वितामुकगोत्रोत्पन्नाया अमुकप्रपौत्र्या अमुकपोज्या अमुकच्या अमुकनाम्न्यै कन्याय, अमुकनवरान्वितामुकगोत्रोत्पनममुकप्रपौत्रममुकपौत्रममुकपुत्रम्मुकशर्माणं भर्तृत्वाय वृणीमह इत्युपवीता. दिभिवणुयात् । वरपिता वृणीध्वमिति वदेत् । एवं पुनर्दिः। बाढमिति चरपिताऽङ्गी कुर्यात् । वरणीयेयं कन्योति पित्रादिभिरनुज्ञायां दत्तायां स्वी करोमीति वरो ब्रूयात् । ततो वरस्य पादौ प्रक्षाल्य गन्धपुष्पाक्षतनीराजनवस्त्रादिभिर्यथाविभचं संपूज्य यथाचारं दुग्धादिमाशनं तेन कार: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy