________________
विवाहप्रयोगः |
१०३
जेत् । पूजको माषसहितमन्नं संस्कृत्य सिद्धेऽन्ने ॐ भूतामिति त्रिः सकृद्वा प्राह । पूज्यः -
ॐ तत्सुभूतं विराडन्नं तन्मा क्षयि तन्मेऽशीय तन्म ऊर्जे धास्तत्सुभूतम् ! इति पठित्वा ब्राह्मणान्भोजयतेति प्रत्याह । ततः पूजको ब्राह्मणभुक्तशिष्टमन्नं स्नातकाय ददाति । पूज्यः
द्यौस्ते ददातु पृथिवी प्रतिगृह्णातु पृथिवी ते ददातु प्राणः प्रतिगृह्णातु प्राणस्त्वाऽश्नातु प्राणः पिबतु ।
पूजकेन दत्तमन्नं प्रतिगृह्णाति ।
ॐ इन्द्रानी में वर्चः कृणतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना ।
यादत्कामं प्राश्नाति । ततो मुखादिकं प्रक्षाल्य द्विवारमाचामेत् । भुक्तवते चतुर्वर्षा प्रथमप्रसूता गौर्दयेत्येके । भोजनान्तो हि मधुपर्कः । अनेनैव प्रकारेणन्त्रिगाचार्यश्वशुरवैवाह्मादिभ्यो मधुपर्कदानम् । यानारोहणं दिशामुपस्थानं पूजकनिरीक्षणं च समन्त्रमुक्तं तत्स्नातकस्यैव भवति नर्विगादीनाम् । ततः स्नातको ब्राह्मणभोजनं भूग्रसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।
इति समावर्तनम् ।
अथ विवाहमयोगः ॥
तत्र कन्यावरणं वाङ्निश्चयो नान्दीश्राद्धादिकं च वरपितृकर्तृकम् । तच कन्यादानादिकं च कन्यापितृकर्तृकम् । पाणिग्रहणं विवाहहामादिकं च वरकर्तृकम् । द्वितीयादिविवाहे तु नान्दीश्राद्धमपि वरकर्तकम् । इत्यनेककर्मसमुदायविशेषो विवाहपदार्थः । तेन कन्यापुत्रयोः संस्कारो भवति । कन्यादाता सुमुहूर्ते गृहाङ्गणे यथोक्तलक्षणं तोरणादियुक्तं मण्डपं कृत्वा तत्र वधूहस्तचतुष्टयपरिमाणां समचतुरश्र हस्तमात्रोछ्रायां सोपानां श्लक्ष्णां वेदिं कुर्यात् । वरपित्रा तु स्वगृहे यथोक्तिलक्षणी मण्डप एव कार्यो न वेदिः । ततो यथाकालं वैवाहिके ज्योतिर्विदादिष्टे शुभे मुहूर्ते कन्यापक्षीय वधूं सुगन्धितैलयवारक
..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com