SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ संस्कारपद्धती — ॐ इदमहममुष्याऽऽमुष्यायणस्य पाप्मानमवगूहामि । गोष्ठ उदुम्बरे दर्भस्तम्वे वा गर्ने कृत्वा तत्राऽऽनडुहेन शकृत्पिण्डेन सह तानि प्रक्षिप्य मृदा गर्ते प्रपूरयति । अमुष्येत्यस्य स्थाने देवदशर्मण इति व्यावहारिकं नाम ग्राह्यम् । अमुष्यायणस्येत्यस्य स्थाने वासिष्ठस्येति गोत्रनाम ग्राह्यम् । अथ स्नातकः करञ्जकल्काद्युद्वर्तनेन शरीरमलं दूरीकृत्य ॐ अन्नाद्याय व्यूहध्वं दीर्घायुत्वाय व्यूहध्वं ब्रह्मवर्चसाय व्यूहध्वं दीर्घायुरहमत्रादो ब्रह्मवर्चसी भूयासम् । औदुम्बरेण काष्टन दन्ताञ्छोधयेत् । ततो द्वादश गण्डूषांस्तूष्णीं कुर्यात् । ततः स्नातकः– आपो हि ष्टा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन चोष्णाशीताभिरद्भिः स्नानं कुर्यात् । तत्तन्मन्त्र समुदायान्ते स्नानम् । ततो द्विराचम्य तूष्णीं लौकिकं वासः परिधाय द्विराचम्य कटिसूत्रं कौपीनं च विस्रस्य प्रज्ञातं निधायाssसादितं चन्दनपिष्टं जलेनाभ्युप तेन पाणी प्रलिप्य ॐ नमो ग्रहाय चाभिग्रहाय च नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः । देवेभ्यः प्राचीनं नमस्काराञ्जलि करोति । अप्सरासु यो गन्धो गन्धर्वेषु च यद्यशः । दैव्यो यो मानुषो गन्धः स मामाविशतादिह ॥ तेनाञ्जलिना मुखमारभ्यानुलोममात्मानं लिम्पति । तत आसादिते अहते वाससी जलेनाभ्युक्ष्य परिहितं पूर्व वासः परित्यज्याऽऽसादितयो - र्वाससोर्मध्य एकं वास आदाय प्रदक्षिणं संवेष्टय ॐ सोमस्य तनूरसि तनुवं मे पाहि स्वा मा तनूराविश शिवा मा तनूराविश । इति मदक्षिणं वेष्टितं वासः परिदधाति । ततो द्विराचम्य तेनैव मन्त्रेपोतरीयसंज्ञकं वासः परिदधाति । ततो द्विराचम्य प्रज्ञातं निहितं कटिसूत्रं कौपीनं चाप्स प्रक्षिपेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy