SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ यज्ञोप० ना० प्रा० प्रयोगः । अङ्गहोमे वरुणमित्यायुक्त्वा व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । ॐ तत्सवितुर्व० यात्स्वाहा । इति प्रतिकाण्डव्रतं गायच्या यथोक्तसंख्याहुतीर्जुहुयात् । सवित्र इदमिति त्यागः । ततः प्रत्येक कृच्छ्रात्मकं प्रायश्चित्तं विदध्यात् । तत इमं मे वरुणेत्यादिहोमशेषं समापयेत् । न त्रिवृ. दन्नहोमः । ततो ब्राह्मणभोजनं विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । आपूर्विकपक्षेण वा प्रयोगः । ततः शुभे दिने काण्डवः तोपाकरणं कृत्वा कापडाध्ययने जाते काण्डव्रतोत्सर्जनं कृत्वा समावर्तनं कुर्यात् । इति काण्डव्रतलोपप्रायश्चित्तप्रयोगः । अथ यज्ञोपवीतनाशप्रायश्चित्तप्रयोगः । यज्ञोपवीते त्रुटिते कटेरधस्ताद्गते कण्ठादुत्तारिते वा तस्य त्यागं कृत्वा प्रायश्चित्तहोमं कृत्वा नूतनं यज्ञोपवीतं धारयेत् । प्रायश्चित्तहोम. कर्ता त्रिवृत्सूत्रं वासो वा यज्ञोपवीतार्थे धृत्वा स्नात्वाऽहतवस्त्रपरिधानादि कृत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य यज्ञोपवीतनाशजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रायश्चित्तहोमं करिष्य इति संकल्प्य स्थाण्डिलं गोमयेनोपलिप्योल्लेखनादिविधिना संस्कारं विधाय लौकिकमग्निं विण्नामानं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध० मान्तं कृत्वा यज्ञोपवीतनाशप्रायश्चित्तहोमकर्मणि या य० त्यन्तमुक्त्वा प्रधानहोमे गायत्र्या सवितारमष्टो० शतसंख्याभिर्घताक्ततिलाहुतिभिर्यक्ष्य इत्युक्त्वाऽङ्गहोमे वरुणं द्वाभ्यामित्याद्युक्त्वा व्याहृतिहोमान्तं कुर्यात् । आज्यपर्यनिकरणकाले तिलानामपि पर्यनिकरणम् । ततो गायत्र्या मृगीमुद्रया घृताक्ततिलानटोत्तरशतं हुत्वाऽङ्गन्होमादि सर्व होमशेष समापयेत् । नात्र त्रिदन्नहोमः। कर्मणः संपूर्णतासिद्धये गुरवे गां दत्त्वा ब्राह्मणभोजनं कृत्वा विष्णुं स्मरेत् । अथवाऽऽपूर्विकतन्त्रेण होमः । ततो नूतन यज्ञोपवीतधारणं कृत्वा द्विराचम्य संध्योपासनादि नित्यं कर्म कुर्यात् । गृहस्थाश्रमिभिर्वानप्रस्थै श्वेदमेव प्रायश्चित्तं कार्यम् । इति यज्ञोपवीतनाशप्रायश्चित्तप्रयोगः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy