________________
ब्रह्म० व्र० लो० प्रा० प्रयोगः ।
तत उल्लेखनादिविधिना स्थण्डिलसंस्कारादि विधाय तत्र सूर्यनामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध० मान्तं कृत्वा गोदानहोमकर्मणि या० व्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणमित्यादि । नात्र वैशेषिकहोमः । जयादिहोमा वैकल्पिकाः । व्याहृतिहोमवारुण्यादिहोमा अत्र नियताः । चौलातिदेशात् । संस्थाजपान्तं समानम् | ततस्त्रिवृदनहोमं पुण्याहादिवाचनान्तं विधाय प्रजापतिः प्रीयतामिति वदेत् ।
९३
ततोऽग्नेः पश्चात्स्वस्थाने ब्रह्मचारिणमुपवेश्य स्वयं तद्दक्षिणत उपविश्याग्नेर्ब्रह्मचारिणो वोत्तरतो धृतानडुगोमयां ब्रह्मचारिमातरं कंचन ब्रह्मचारिणं वोपवेश्योष्णशीताभिरद्भिरुन्दनादिवपनान्तं चौलोक्तरीत्या कुर्यात् । वपनं तु भृग्वादिगोत्रिव्यतिरिक्तानां सर्वेषां मध्यमशिखामत्रशेष्यैव । भृग्वादिगोत्रिणां तु मध्यमशिखाया वपने विकल्पः । ततः केशसंयमनादिकं चौलोक्तरीत्या कृत्वा सर्पिष्मन्तमोदनं नापिताय दत्त्वाऽऽचार्याय वरं दद्यात् । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्माण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत्। अग्निकार्यमेव गोदानमिति पक्षान्तरे तु वपनातिरिक्तं सर्वं कार्यम् ।
इति गोदानप्रयोगः |
अथ बौधायन सूत्रानुसारेण ब्रह्मचारिव्रतलोपप्रायश्चित्तस्याऽऽपूर्वि - कतन्त्रेण प्रयोगः ।
पूर्वेद्युस्तादने वा ब्रह्मचारी देशकालौ संकीर्त्य मम भिक्षानिकार्यादिलोपजनितदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं बौधायनोक्तप्रायश्चिताज्यहोमपूर्वक कृच्छ्रत्रयमितं प्रायश्चित्तममुकप्रत्यान्नायेनाहमाचरिष्य इति संकल्प्योल्लेखनादिस्थण्डि० य तत्र विण्नामानमग्निं श्रोत्रियागारादाहृतं लौकि० ध्यात्वा समित्रयमादाय श्रद्ध ए० मान्तं कृत्वा ब्रह्मचारिव्रतलोपप्रायश्चित्तहोमकर्मणि या यक्ष्यमाणास्ताः सर्वाः परिग्रहीष्यामीत्येतदन्तमुक्त्वा प्रधानहोमेऽग्निं वायुं सूर्य प्रजापतिं चैकैकयाऽऽज्या० क्ष्ये । अग्निमग्निं पृथिवीं महान्तं चैकैक० । वायुं वायुमन्तरिक्षं महान्तं चैकैक० । सूर्यमादित्यं दिवं महान्तं चैकैक० । प्रजापतिं चन्द्रमसं नक्षत्राणि दिशो महान्तं चैकैक० क्ष्ये । अग्निं० विश्ववेदसं० विभावसुं शतक्रतुं
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat