________________
संस्कारपद्धतौअथ तन्त्रेणं काण्डव्रतोत्सर्जनप्रयोगः । आचार्यों नद्यादौ प्रशस्तदेशे ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणा ब्रह्मचारिणा वेदाध्ययनार्थ स्वीकृतस्य प्राजापत्यसौम्याग्नेयवैश्वदेवा. ख्यकाण्डचतुष्टयव्रतस्योत्सर्जनं तन्त्रेण करिष्य इति संकल्य गणेशपू. जनादि नान्दीश्राद्धान्तं कुर्यात् । नात्र वपनादि ।
तत उल्लेखनादिविधिना स्थाण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमनि प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा प्राजापत्य० देवाख्यकाण्डचतुष्टयव्रतोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-सदसस्पतिं प्रजा० र्षि सोमं का० अग्निं का० विश्वा० पश्चैिकैकयाऽऽज्याहुत्या यक्ष्य इति । अङ्गहोमे वरुणं द्वाभ्यामित्यादि । व्याहृतिहोमान्ते प्रधानहोमः । स यथा- ॐ सदसस्पति. पर स्वाहा । सद य इदं० । प्रजाप० । प्रजा० र्षय इ० । सोमा० ।सो. रेय इ० । अन०अ० र्षय इ० । विश्वे० षिभ्यः स्वाहा। विश्वे० र्षिभ्य इदं० । इति प्रधानहोमं कृत्वेमं मे वरुणेत्यादि सर्व होमशेष समापयेत् । उपाकरणे यदि जयादिहोमाः कृताः स्युस्तदाऽत्रापि कार्याः । नात्र त्रिवृदनहोमः।
ततो ब्रह्मचार्यग्ने व्रतपते व्रतमचारिषमित्यादिभिर्देवतोपस्थानं कृत्वा वतं विमृज्य गुरवे वरं दद्यात् । तत आचार्यों ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसागुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।
इति तन्त्रेण काण्डव्रतोत्सर्जनप्रयोगः ।
अथ गोदानप्रयोगः । तञ्च समावर्तनात्प्राक्कर्तव्यम् । तस्य प्रयोगः-आचार्यों ब्रह्मचारि. सहितः कृतनित्यक्रियश्चौलोक्ततिथ्यादिकाले प्राङ्मुख उपविश्याऽऽ. चम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणो ब्रह्मचारिण आयुर्वचोभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गोदानसंस्काराख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनादि नान्दीश्राद्धान्तमुक्तरीत्या कु. योत् । अत्र केशिनः प्रीयन्तामिति विशेषः । चौलधर्मत्वादेतस्य ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com