________________
काण्डानि । उदस्थानि वा एतस्येत्यनुवाकौ । संज्ञानं लोकोऽसीति प्रश्नौ । ब्रह्म वै चतुर्होतार इत्यादयः पश्चानुवाकाः । इत्याग्नेयकाण्डम् ।
अथ वैश्वदेवकाण्डम्-अनुमत्यै पुरोडाशमिति संहितान्तर्गतः प्रश्न उत्तमानुवाकवर्जम् । ऋतमेव परमेष्ठीत्यनुवाकः। ब्राह्मणान्तर्गतानुमत्यादयस्वयः प्रश्नाः । प्रजा वै सत्रमासताग्निर्वाव संवत्सर इत्यनुवाको । देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते सुरा ऊर्वमित्यनुवाकः । वाय. व्य५ श्वेतमित्यादयश्चत्वारः प्रश्नाः । तत्रोत्तमानुवाकान्वर्जयेत् । प्रजाप. तिरकामयत प्रजाः सृजेयेतीति तृतीयकाण्डम् । तत्र पञ्चप्रश्नानामन्तिमाननुवाकान्वर्जयेत् । इषे त्वेत्यादिरश्मिरसीत्यन्तानां प्रश्नानां क्रमेणो. त्तमानुवाका उशन्तस्त्वेत्येतत्पूर्व युवाहीत्यनुवाकश्च । देवस्य त्वेत्यादयः प्रजननप्रश्नशेषा दशानुवाकाः । एकस्मा इत्यादय एकादशानुवाकाः । अर्वाङित्यादयो दशानुवाकाः। मेषस्त्वा पचतैरवत्वित्यादय एकादशानुवाकाः । पृथिव्यै स्वाहेत्यादयश्चतुर्दशानुवाकाः । जीमूतस्य यदक्रन्दो मा नो मित्रो ये वाजिनमग्नेमन्व इति पश्चानुवाकाः । इन्द्राय राज्ञे सूकर इत्यादयश्चतुर्दशानुवाकाः। रोहितो धूम्ररोहित इत्यादयस्त्रयोदशानुवाकाः । स्तेगान्दष्ट्रिाभ्यामिति षोडशानुवाकाः । समिद्धो अञ्ज. न्गायत्री कस्त्वेति त्रयोऽनुवाकाः । प्रयासाय स्वाहा चित्तर संतानेनेति दावनुवाको । प्रजापतेरक्षि पवस्व वाजसातय इत्यनुवाकौ । यो वा अश्वस्य मध्यस्य शिर इत्यनुवाकः । सांग्रहण्या प्रजापतिरश्वमेधमसृजतेति प्रश्नद्वयम् । अङ्गिरसो वै सत्रमासतेत्यादयः प्रजननप्रश्नान्तर्गताः सप्तानवाकाः । साध्या वा इत्यारभ्य दशानुवाकाः। प्रजवं वा इत्यारभ्य दशानुवाकाः । बृहस्पतिरकामयत श्रन्मे देवा इत्यारभ्यैकादशानुवाकाः। गावो वा इत्यारभ्य दशानुवाकाः । न वै तान्यहानि भवन्तीत्यादिः प्रश्नशेषः । यस्य प्रातःसवन इत्यादयस्त्रयोऽनुवाकाः। जुष्टो दमूना इति प्रश्नद्वयम् । पीवोन्नामिति प्रश्नः । भर्ता सन्हरि हरन्तमित्यनुवाको। अग्निर्नः पात्विति प्रश्नः । अग्नेः कृत्तिका इत्यनुवाकत्रयम् । स्वाद्वी तोति प्रश्नः । युव५ सुराममित्य नुवाकः । सर्वान्या इति प्रश्नः । अञ्जन्तीति प्रश्नः । ब्रह्मणे ब्राह्मणमिति प्रश्नः । तुभ्यं ता इत्यादयश्चत्वारोऽनुवाकाः । इति वैश्वदेवकाण्डम् ।
इति काण्डानि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com