________________
काण्डानि ।
तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवना - मानं श्रोत्रियागारादाहृतं लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा प्राजापत्यसौंम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधान होमे - सदसस्पतिं प्रजापतिं काण्डपिं सोमं काण्ड काण्डपिं विश्वान्देवान्काण्डपीक याज्याहुत्या यक्ष्ये । अङ्गहोमे-वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् ।
८९
ॐ सदसस्पति० सिष स्वाहा । सदसस्पतय ३० । प्रजापतये काण्डर्षये स्वाहा | प्रजापतये काण्डर्षय इ० । सोमाय काण्ड० । सोमाय का ० र्षय इ० । अग्नये काण्ड० । अग्नये० र्षय इ० । विश्वेभ्यो० र्षिभ्यः स्वा० । विश्वे० र्षिभ्य इ० । इति प्रधानहोमं कृत्वा, इमं मे वरुणेत्यादि सर्वे होमशेषं समापयेत् । जयादिहोमे विकल्पः । त्रिवृदन्नहोमोऽत्र नास्ति ।
ततो ब्रह्मचार्य व्रतपते व्रतं चरिष्यामीत्यादिभिरुपस्थाय गुरवे वरं दद्यात् । ततो ब्राह्मणभोजनं भूयसीदक्षिणाशनं च विधाय कर्मसागुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।
इति तन्त्रेणोपाकरणप्रयोगः |
अथ काण्डानि ।
अथ सारस्वतपाठेनाध्ययनेऽपि काण्डपरिज्ञानस्याssवश्यकत्वात्तदर्थं काण्डानुक्रमण्यनुसारेण काण्डान्युच्यन्ते । तत्र प्राजापत्यकाण्डम् - इषे त्वेति प्रश्न उत्तमानुवाकवर्जम् । तृतीयस्यां प्रत्युष्टमिति प्रश्नद्वयम् । मम नामेत्येतस्यानुत्राकस्य पयस्वतीरोषधय इत्यादिः शेषः । संत्वा सिञ्श्चामीति प्रश्न उत्तमानुवाकवर्जम् । पाकयज्ञमित्यादयो द्वितीयानुवाकत्रर्जे पञ्चानुवाकाः । सशान्तिकाश्चित्तिः स्रुगित्यादयस्त्रयोदशानुवाकाः । प्रजापतिर्ब्रह्मवादिन इति द्वितीय काण्डब्राह्मणान्तर्गतं प्रश्नद्वयम् । सत्यं प्रपद्य इति प्रश्नः । देवा वै नर्चिनेत्यादयश्चत्वारोऽनुवाकः । निवीतंमनुष्याणामित्यारभ्य मनुष्यलोकं चाभिजयतीत्यन्तोऽनुवाकः । सश्रवा इत्यनुवाकः । मनुः पृथिव्या इत्यादयश्चत्वारोऽनुवाकाः । विश्वरूपो बै
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com