________________
संस्कारपद्धतौ
अथान्तरितसंस्काराणां प्रयोगः।। ' गर्भाधानादिचौलान्तसंस्काराणां सर्वेषामसर्वेषां वा कालातिक्रमें
लोपे वा सत्याज्यं संस्कृत्य समस्तव्याहृतिभिः प्रतिसंस्कारमेकामाज्याहुति हुत्वा प्रतिसंस्कारं पादकृच्छू चूडाया अर्धकृच्छू प्रायश्चित्तं कुर्यात् । ततोऽतीतं यथाक्रमं कर्म कर्तव्यं न कर्तव्यं वति विकल्प: । यदि भ्रमात्पूर्वसंस्कारमकृत्वाऽग्रिमं संस्कारं करोति तदा पूर्वस्य लोपः। इतरथाऽतिक्रमः । लोपे तु प्रायश्चित्तमेव न कदाचिदप्यतीतकर्मानुष्ठानम् । तदंशे विकल्पाभावात् । अतीतेऽपि प्रायश्चित्तमेव न होम इत्यपि केचित् । अथ प्रयोगः--
उपनयनदिनात्पूर्वदिने पत्न्या कुमारेण च सह कृतमङ्गलस्नान आचम्य प्राणानायम्य देशकालो संकीर्त्य ममास्य कुमारस्य गर्भाधानादिचौलान्तसंस्काराणां कालातिपत्तिजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रायश्चित्तहोम करिष्य इति संकल्योक्तरीत्वा कुर्यात् ।
मायश्चित्तसंकल्पस्तु मम पुत्रस्य गर्भाधानाद्यन्नप्राशनान्तसंस्कारकमणां वकालेऽकरणजनितप्रत्यवायपरिहारार्थ पादकृच्छ्पायश्चित्तं तथा मम पुत्रस्य चौलसंस्कारकर्मणः स्वकालेऽकरणनितप्रत्ययायपरिहारा. थमर्धकृच्छ्प्रायश्चित्तं च क्रमेण करिष्य इति संकल्पपूर्वक प्रत्याम्नायद्वारा कुर्यात् ।
पादकृच्छ्रपत्याम्नायस्तु सहस्रसंख्यतिलहोमायुतगायत्रीजपद्वादशवाणभोजनाद्यन्यतमपक्षस्य तृतीयांशरूपः । अर्धकुच्छ्रपत्याम्नाय एतेषामरूप इति विवेका।
इत्यन्तरितसंस्काराणां प्रयोगः ।
अथ काण्डव्रतोपाकरणम् । तस्य प्रयोगः-आचार्यों ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणों ब्रह्मचारिणो वेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्राजापत्यसौम्याग्नेयवैश्वदेवारख्यकाण्डचतुष्टयव्रतोपाकरणं तन्त्रेण करिष्यं इति संकल्प्य गणेशपूजनादि नान्दीश्राद्धान्तं कुर्यात् । नान्दीश्राद्धोत्तर ब्रह्मचारिणा वपनं स्नानं च कारयित्वा तस्मै नूतनकटिसूत्रकच्छोपवी. सामिनोसरीयदण्डान्दत्त्वा पुराणान्यप्मु निक्षिपेदिति केचित् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com