________________
संस्कारपद्धतीसंमृज्याऽऽऽयं संस्कृस्यानेः पश्चाहर्मेधाज्यं दवा च निधायानि मन्त्रैः परिषिच्यालंकृत्य दाऽऽज्यमादाय ॐ अयावाने स्य० मेषजए स्वाहेत्येकामाहुर्ति जुहुयात् । अयसेऽनय इ० । लतः परिस्तरणानि विमृज्य सर्वप्रायश्चित्तं हुत्वोत्तरपरिषेकं कुर्यात् । समिदाधानात्मागन्यनुगमनेऽपि प्रायश्चित्तहोमानन्तरमेव समिदभ्याधानं कार्यम् । अथवा सर्वमायश्चित्तमात्रमत्र नायाश्चाग्न इत्याहुतिः ।
इत्युपनयनामिनाशप्रायश्चित्तम् ।
अथ चतुर्थदिवसीयोपनयनाङ्गानि । श्राचार्यः प्रातः कृतनित्यक्रियः कृतप्रातःसंध्याग्निकार्योपसंग्रहणाभिवादनेन ब्रह्मचारिणा सह प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य त्रिदनहोमं वास्तुपतये बलिदानं च पूर्ववत्कृत्वा ब्राह्मणान्संभोज्य पुण्याहस्वस्त्ययन(चियित्वा श्रद्धामेधे प्रीयतामिति वदेत् । ___ ततो ब्रह्मचार्याचम्य प्राणानायम्य व्रतविसर्गार्थ देवत्तोपस्थानं पूर्ववम्कुर्यात् । तत्र तच्छकेयं तन्मे राध्यतामित्येतस्य स्थाने तदश तन्मेऽराधीति मन्त्रसंनायः । ततस्व्यहवतं विसृजेत् । ___ तत आचार्यः स्थापितदेवतानां तत्रैव पञ्चोपचारः पूजनं विधाय सद्वेशपात्र स्वयं गृहीत्वा गृहीताविघ्नगणपतिकलशया भार्यया ब्रह्मचारिणा च सह वेदिसमीपमागत्य वेद्यामुपविश्य मणपतिमभ्यय॑ षोडशोपचारैरावाहितदेवताः पूजयेत् । तत्राभिषेककाले नीराजनतैलाभ्यङ्गादि पूर्ववत्कुर्यात् ।
तत आवाहितदेवताविसर्गोत्तरं पूर्ववन्महीद्योरिल्यादिविधिना पुण्याहादिवाचन विदध्यात् । तत्रास्य मण्डपोद्वासनकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिप्रयोगः । श्रद्धामधे प्रीयतामिति देवतानिर्देशः। __ ततः समुद्रज्येष्ठां इत्यभिषेकान्ते कश्चन मान्यस्ताः शाखा उन्मुच्यः तस्सूत्रं कलशवेष्टनसूत्रं च क्षीराभ्यकं कृत्वाऽक्षतपूगीफलयुक्तं तत्कर्तृहस्ते दद्यात् । स च भार्यायै तत्सूत्रं प्रदर्य वस्त्रादिधनपेटिकायां संस्थापयेत् । ततोऽनिं विसृज्य ताः शाखास्तत्स्नानजलं च गृहस्योपरि शुद्धजले. निक्षिण्याङ्गणवितानस्येशानकोणे विमोचनं कुर्यात् । ततो यथासंभवं ब्राह्मणभोजनं कृत्वा नेभ्यो गन्धादिपूजनपूर्वकं. भूयसी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com