________________
रसपद्धतिः ।
८१
द्वाविति षट्, एवंप्रकारेण कृतान् द्वादशभागान्, गोदध्ना एकत्र मर्दयित्वा, कोलं लघुबदरीफलमपक्कं तद्वद्वटीं कृत्वा, ज्वरे दिनत्रयात्पञ्च दिनात्सप्तदिनादूर्ध्वमुष्णोदकेन पीता अष्टप्रहरैः नवज्वरं नाशयति । अत एवान्वर्थसंज्ञा अष्टयामिकत्रटीति ॥ १५३ ॥
आतङ्कान्तकाख्यं रसमाह -
हिलो रसगन्धको त्रिसदृशं तिक्तारजः सप्तधा शेफालीसलिलैस्तथाऽऽर्द्रकरसैः संभाव्य संपादितः ॥ १५४ ॥ पीतः शर्करया सहार्द्रकरसैर्वलप्रमाणो रसो ह्यातङ्कान्तक एष सत्यवचसा नागार्जुनेनोदितः । पकापक मजीर्णजीर्णमथवा हन्त्याशु तीव्रं ज्वरम् ॥ १५५ ॥
टी० - दरद : पारदः गन्धकः एतत्रयं समभागं कटुकीचूर्ण सप्तभागं, संख्यायाः प्रकारे णप्, एतच्चूर्णितं निर्गुण्डिकाईकरसाभ्यां भावितः शर्कराईकरसाभ्यां वलमितः पीतः, नागार्जुनेन आतङ्कान्तक उक्तः, आतङ्को ज्वरः 'यक्ष्मातङ्कगदाबाधाषष्ठाः पर्यायवाचकाः' इत्युक्तत्वात्, सत्यवचसा दृष्टफलेन, एवंभूतं ज्वरं हन्तिसामं निरामं, अजीर्णजीर्णत्वं तु त्रयोदशदिनैकविंशतिदिन भेदेन, अन्यथा पुनरुक्तिः ॥ १५४ ॥ १५५ ॥
नवज्वरमुरारिरसमाह -
एकः पारदतस्तथैव दरदाद्भागस्तथैको विषाद्वौ गन्धकताम्रटङ्कणनभस्तिक्तावराभ्यः पृथक् । हृद्धात्रीनलिकाग्नितीक्ष्णरजतात्तद्वत्तथैकोनकानंशां त्रिशद मूद्विरर्कपयसा द्विभृङ्गराजाम्भसा ।। १५६ ॥ द्वित्रिश्चिकवारिणा च दशधा दन्तीजबीजाम्भसा त्रिः श्रेष्ठासलिलैर्विभाव्य विहितः कोलास्थिमात्रो रसः । पुन्नागैर्मरिचैः सचोरक गुडैलींढो नवीनज्वरान् जीर्णाजीर्णनवान्नवज्वरमुरारिर्नामको नाशयेत् ॥ १५७ ॥
टी० - पारदः एकभागः, हिङ्गुल एकभागः, विषस्तथा एको भागः, गन्धकः, ताम्र भस्म, टङ्कणक्षारो भृष्टः, अभ्रकभस्म, कटुकी, त्रिफला, एषां पृथक् प्रत्येकं द्वौ भागौ, वीप्सा न्यूनाधिकवचननिरोधाय मनोधात्री ह्यावली, नलिका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
,
www.umaragyanbhandar.com