SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । दन्तीबीजकलिङ्गलाङ्गलिजटोशीरौषधैर्निर्मिता टी०--भैरवीवदियं चन्द्रवटिका ख्याता । माक्षिकं, कटुकी, चित्रकः, किरातः, गुडूची, हरितालः, बलिर्गन्धकः, श्रेष्ठा त्रिफला, अतिविषा, सूतः, जेपालाख्यं, इन्द्रयवः, हलिनीकन्दः, उशीरं, औषधं शुण्ठी, एभिः कृता वटी तीव्रज्वरादिघ्नी ॥ ज्वरहराख्यं रसमाहअंशाः षोडश भारशृङ्गभसितादष्टौ हलिन्यतितः॥१५१ ॥ चत्वारो गरलाच गन्धदृषदो द्वौ पारदादेकतो ह्येकत्रिंशदमून लवानिति चतुस्त्रिः शृङ्गवेराद्रसैः। एकीकृत्य विमर्दितो ज्वरहरो नाम्ना रसः सिध्यति गुञ्जायुग्मममुष्य पूर्वपयसा पीत्वाऽतितीव्रज्वरात् ॥१५२॥ तैलस्निग्धतनुः कदुष्णसलिलनातो दिनान्मुच्यते अद्यात्पष्टिकभक्तदुग्धजमसावुल्लाप एवाचिरम् । टी०-विकटबहुविषाणमृगशृङ्गभस्मतः षोडश भागाः, लाङ्गल्याः अनि मूलं तस्याष्टौ भागाः, वत्सनाभाच्चत्वारो भागाः, गन्धदृषदो गन्धकाछौ भागौ, सूतादेको भागः, सार्वविभक्तिकस्तसिल्, एवं मिलित्वा एकत्रिंशद्भागानेकत्र कृत्वा चस्त्रिः सप्तवारं, आईकरसैर्भावितः, ज्वरहरो नाम रसो भवति । अस्य वल्लं पूर्वपयसा आईकरसेन पीत्वा, अतितीव्रज्वरात्संततादिज्वरान्मुक्तो भवतीत्यन्वयः। तिलतैलाभ्यक्तः किंचिदुष्णजलनातः। पथ्यमाह-अद्यादित्यादि। ज्वरवेगनिवृत्तौ षष्टिकोदनं, दुग्धजं दधि, एतदुभयमद्यात् । तत्कालं गदनिवृत्तो भवति । 'उल्लाघो निर्गतो गदात्' इत्यमरः ॥ १५१ ॥ १५२ ॥ अष्टयामिकगुटिकामाहचाङ्गेरीरजसः पडीशरजनीसिन्धृद्भवेभ्यश्च पडंशा द्वादशनिर्मिता इति गवां दना विम(कतः॥१५३॥ बद्धा कोलशलाटुवत्रिदिवसापूर्व निपीतोष्णकैयोमरष्टभिरष्टयामिकवटी छिन्यानवीनज्वरम् । टी०-चाङ्गेरीरजस इति चुक्रिकाचूर्णात् षट् भागाः, 'चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्ठाऽम्ललोणिका' इत्यमरः, ईशः पारदः, रजनी, सैन्धवं, एभ्यः प्रत्येकं द्वौ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy