________________
७९
रसपद्धतिः। गुल्मे शूलगदे त्वगस्त्यवटिकामग्नेः कुमारं तथा, शूलादौ जठरेषु शङ्खवटिकां शङ्खद्रवात्रेचकान् ॥ १४८ ॥ कुष्ठे श्वित्रगदे च तालकरसान् , वातामये तालकं सिन्दूरं रसपूर्वकं च विमलं कर्पूरसंज्ञं रसम् । पुंदोषे च फिरङ्गवातजनितस्फोटे च सन्ध्यस्थिगे वाते गन्धकविद्रुति रसयुतां यष्टिं फिरङ्गाभिधे । कर्पूर रसपूर्वकं त्वथ वटी क्षाराभिधां धूपनं हिङ्गलोत्थरसेन्द्रतालकभवं वेल्लन्तरुवेदनम् ॥ १४९ ।। इति रसोपयोगिनी सामग्री निरूप्य महारसाः निरूप्यन्ते। तत्र ज्वरस्य प्राधान्यानवज्वरे रसाः । तेषु स्वकुलप्रसिद्धां भैरवी गुटिकामाह
पाठापारदगन्धकामृतलतामाक्षीकतालानलैः काश्मीरीविषतिन्दुलाङ्गलिजटायष्ट्याह्वबोलौषधैः । कर्कोव्याऽपि च मोघया बृहतिकानिर्गुण्डिकावारिणा क्षुण्णैः सप्तदिनं विभाव्य विहिता कोलास्थिदनी वटी । नाम्नाभैरविका जयेत्सविषमान् नूनज्वरान् स्वेदनात्।।१५०॥ टी०-पाठा वृकी, पारदः शुद्धोऽपक्कः पक्को वा, गन्धकः शुद्धो गन्धः, गुड्चीकाण्डचूर्ण, वर्णमाक्षिकः शुद्धः पक्कः, अशुद्धोऽपक्वः पक्को वा हरितालः, चित्रकमूलत्वक्, काश्मीरी अतिविषा, विषतिन्दुः काकतिन्दुः, लागलीजटा कलिकारिणीमूलं, यष्टी मधुयष्टी, बोलो जातिरसः स्त्रीणामुपयोगी औषधं, शुण्ठी, कर्कोट्या वन्ध्याकर्कोटिकाकन्देनः क्षुण्णैः सुचूर्णितः, कण्टकारीनिर्गुण्डीरसैः, विभाव्य कृता संप्रदायात्सप्तवारं, ‘वासितं भावितं' इत्यमरः । 'द्रवेण यावता द्रव्यमेकीभूयाईतां व्रजेत् । तावत्प्रमाणं निर्दिष्टं भिषग्भि वनाविधौ'-इति वचनाद्वमानं ज्ञेयम् । गुटिकामानं तु कोलप्रमाणम् । 'प्रमाणे द्वयसदनमात्रचः' इति दनञ् । फलनामनी आह-भैरविकेति । भैरवाख्या वटी । स्वेदं धर्म कृत्वा, एकाहिकादीन्वातादिजान् , नूमानवज्वरान् हन्यादिति । इयं सर्वव्याधिषु उपयुज्यते प्रभावात् ।। १५० ॥
चन्द्रवटिकामाहख्याता तद्वदियं च चन्द्रवटिका तापीजतिक्तानलैभूनिम्बामृतवल्लितालकबलिश्रेष्ठाविषापारदैः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com