________________
रसपद्धतिः ।
कूर्माभावणखर्परेण सुमृदा संधौ निरुद्धः शनैरूर्ध्व प्रज्वलितानलः कुनिहितः प्राग्भाण्डदुग्धे धृतः ॥ ५६ ॥
"
टी० - सर्वोऽपि बलिः जीर्णोर्णाकृतदुग्धभाण्डे न्यस्तः, कूर्मपुटे पक्कः, शुद्धः स्यात् । तत्र कूर्मयन्त्र प्रकार माह - प्रथमतो भाण्डे दुग्धं देयं, पश्चाजीर्णोणवस्त्रेण अथवा कार्पासवस्त्रेण मुखमानृत्य, तस्योपरि गन्धकचूर्णं दत्त्वा किंचिद्वस्त्रं श्लथं कृत्वा, तदुपरि कूर्माभमत्रणं खर्परमुत्तानं दत्त्वा मृत्तिकया संधिलेपं कृत्वा, शनैरूर्ध्वं प्रज्वलितानलः खर्परमध्ये छगणानि दत्त्वा तदुपरि अग्निं दत्त्वा तत्तापेन द्रुतो भवति, स दुग्धमध्ये निपतितः शीतीभूतो ग्राह्यः ॥ ५६ ॥
,
प्रकारान्रतमाह
प्राग्भाण्डे निहितोऽथवा शुचिरयोदर्व्या शनैर्द्रावितः, कण्डूकुष्ठ विसर्पणप्रदररुग्रक्तातिसाराञ्जयेत् ।
३९
टी० - अयोदय घृतं दत्त्वा द्रावितः, प्राग्भाण्डे ऊर्णावस्त्रविहितव निहितः, शुचिः शुद्धो भवति । तद्गुणानाह - कण्वित्यादि । प्रदररुक् स्त्रीरोगः । रक्तातिसारपदेन रक्तपित्तं, रक्तार्शांसि च ग्राह्याणि । अयं त्रिफलाभृङ्गमध्वाज्यैर्भक्षितः शाणमितः गृध्राक्षितुल्याक्षियुगं करोति तथा दीर्घमायुश्च । द्रुतिप्रकारस्तु - षोडशांशव्योषमिश्रितं गन्धकं वितस्तिमात्रे वस्त्रे प्रकीर्य, वर्ति कृत्वा, सूत्रेणावेष्ट्य, तिलतैले निमज्य, संदंशेन मध्ये धृत्वा, उभयत्र प्रज्वालयेत्, ततो निःसृततैलबिन्दून् काचभाजने संगृह्य तस्मात्रीन् बिन्दून्नागवल्लीदले दत्त्वा स्वच्छं पारदं वलमात्रं दत्त्वाऽङ्गुल्या मर्दयित्वा, सपत्रां दृतिं भक्षयेत् । तदग्निदीप्तिकरं श्वासकासादिरोगघ्नं च । केचित्पलाशतैलमिश्रितां तां शुद्धपारदं च नागवल्लीदलेन भक्षयन्ति, पौष्टिकत्वात् । अथवाऽर्कस्नुही क्षीरैर्वस्त्रं विलिप्य शोषयेत्, ततो नवनीतपिष्टगन्धकं रसेन सहैव लेपयेत्, वर्ति कृत्वा द्रुतिं निष्कासयेत् । यद्वाऽर्क भृङ्ग निर्गुण्डीकन कतुलसीविजयातर्कारीरसैरन्यैव रसैर्वस्त्रं विलिप्य, शोषयित्वा तत्र नवनीतपिष्टगन्धकपारदकज्जली लेपयित्वा, पश्चात्पूर्ववद्दुतिं कारयेत् । तस्या बिन्दुत्रयं, शुद्धस्य पारदस्य वल्लं, मर्दयित्वा भक्षयेत् । इयं राजविजीति लोके वातव्याधौ । “गन्धकस्तुल्यमरिचः षड्डणत्रिफलान्वितः । शम्याकस्य तु मूलेन मर्दितोऽखिलरोगहा ” – इति । तन्मूलस्य रसेन घृष्टः सर्वशरीरे लेपितश्च खर्जूकुष्टघ्नः । द्विनिष्कप्रमितो गन्धकस्तैलेन सह पीतः, पश्चादपामार्गतोयेन तैलमरिचेन सह पेषयित्वा सकलदेहं विलिप्य, धर्मे तिष्ठेत्, ततो मध्याह्ने तक्रभक्तं भुञ्जीत, रात्रौ वह्निसेवा, प्रातर्महिषीच्छगणलेपः, शीतजलेन स्नानं च कार्य; एवं पामाकुष्ठं गच्छति ॥ -
हरितालस्य शुद्ध्यादिप्रकारमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com