________________
रसपद्धतिः।
मयूरं वा क्रमेण चारयित्वा, तद्विष्ठां कुडवमात्रां संगृह्य, क्षाराम्लैः सह पेषयिखा, विशोष्य, खर्परके दत्त्वा, भर्जनं कुर्यात् । तां मैषीं द्रावणवर्गेणैकीकृत्य, मूषामध्ये निवेश्य, घटिकाद्वयं धमेत् । तस्मिन् शीतीभूते खोटमाहृत्य, प्रक्षाल्य, रवकान् गृहीत्वा, टङ्कणं दत्त्वा, वर्णवद्धमेत् । तस्य मयूरतुत्थताम्रस्य च मुद्रिका कार्या । मृत्तिकां तु भृङ्गनिर्गुण्डीद्रावैर्द्रावणवर्गेणकीकृत्य मर्दयेत् । पश्चादृढमूषायां वटकीकृतां प्रक्षिप्य घटिकाद्वयं धमेत् । तप्तोदकैः प्रक्षाल्य रवकान् भारवत्तरान् रेणून् द्वादशांशेन ताम्रयुक्तान् कृत्वा मात्वा रवकान् कुर्यात् , तेन वज्रादिद्रावणं कुर्यात् । इदं वारद्वयं त्रयं वा वजे दत्तं वजं दुतीभवति । इदं तु वज्रस्य पारदस्य द्रावणार्थे परमं तेजो भवति । गुणास्तु प्रागुक्ताः। वर्णेन युक्ताऽपि मुद्रिका कार्या । साऽप्याचिन्त्यसामर्थ्या भवति ॥ ५१-५४ ॥
अथोपरसानाहगन्धस्तालमनःशिले उपरसा, गन्धस्तु तत्र त्रिधा पीतारक्तसितप्रभाभिरधमस्तत्रान्तिमो, मध्यमः । आयो, मध्यभवो वरः सितनिभं केचित्खटीमूचिरे पीतो ह्यामलकच्छविर्लवणको नाम्ना दृषद्गन्धकः ॥ ५५ ॥ एवं त्रिस्त्विह पूजितः प्रथमका, टी०-गन्धः गन्धकः । तालो हरितालः । मनःशिला नेपाली । इदमुपलक्षणम् । तदुक्तम्-"गन्धो गैरिककासीसे काड्डी तालशिलाजनम् । ककुष्टं चेत्युपरसा अष्टौ पारदकर्मणि"-इति । तत्र गन्धकस्य मेदपुरःसरां शुद्धिमाह-गन्धस्वित्यादि । पार्वतीरजोयुक्तवस्त्रात्क्षीरसागरे प्रक्षालितादमृतेन सह देवर्निष्काशितः रसजारणार्थ बन्धनार्थमयं भवत्विति । पारदे तत्रोपरसेषु च ये गुणास्त एवात्र । मन्धस्त्रिधा-पीतरक्तसितभेदात् । तन्मध्येऽन्तिमः श्वेतोऽधमः, आद्यो मध्यमः, रक्तो वरः। केचित्सितं खटीमूचिरे। आमलकच्छविः पीतः, स लवणक उक्तस्तस्यैव नाम दृषद्न्धकः । लोके द्विविधोऽपि प्रसिद्ध एव आमलकच्छविदृषद्गन्धकश्च; रक्तस्तु कुत्रचिद्भवति, सः धातुवादे योज्यः। अन्ये तु चतुर्विधं गन्धकं वदन्तिरक्तकृष्णौ दुर्लभतरौ, पीतश्वेतौ च सुलभौ। उभावपि पारदमारणे पारदकर्मणि प्रयोज्यौ। प्रथमकः पीतो गन्धकः, इह रसवादे पूजितः। तत्र सर्वस्यापि शुद्धस्यैव प्रयोगः ॥ ५५ ॥
सर्वोऽपि शुद्धस्त्वसौ जीर्णोर्णावृतदुग्धभाण्डवदने न्यस्तः सुपिष्टो बलिः।
१ 'मृदं' इति पा०। २ 'सत्त्वं भवति' इति पा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
___www.umaragyanbhandar.com