SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः । ३७ , म्लवर्गेण भावितं, स्नेहेन तैलेन सिक्तं, अश्वसुरभीमूत्रे दिनं दोलायां पक्कं, परिशुध्यतीति । तद्गुणानाह - व्रण्यं व्रणहितं वान्तिकरं वामकं, स्थावरविषघ्नं नेत्ररोहरं च । इदं चाञ्जनादौ प्रयोज्यम् । तस्य सत्त्वप्रकार माह — घस्रमिति । करञ्जतैले सामि घस्रं अर्धदिनं निहितं, पश्चात्पादांशटङ्कणलुतं तुत्थं मयूरग्रीवाख्य मन्धमूषायां निहितं, दीप्तैः काष्ठत्रयैर्मांतं सत्त्वं मुञ्चति । एवमेव भूनागसत्त्वमाह – भूनागेत्यादि । एवमेव भूनागसत्त्वं निष्कासयेत् । एतच्च मुद्रिकोपयुक्तत्वेनात्रैवोक्तम् । उभाभ्यां मिलिताभ्यां रविवासरे अथवा रविग्रहणे रचितया मुद्रया संप्लावितं यद्वारि तद्विषयं स्थावरजङ्गमं विषं, ग्रहाः स्कन्दादयः, एषां नाशकं, सद्यः स्त्रीप्रसवजनकं च । तद्वदिति – तप्ततिलजः स्नेहः परिमृष्टोऽनया मुद्रया वक्ष्यमाणेन मन्त्रेण मन्त्रितः, अतुलं शूलं निहन्ति, तथा हग्दोषभूतग्रहं च निहन्ति । तथा सद्यः स्त्रीप्रसवदो भक्षितः सन् अथ लिप्तः सन् सद्यो व्रणारोपणः, लोचनयोर्निहितो हितो भवति । भालुकिप्रोक्तमन्त्रस्तु - रामवत्सोमसेनानीत्यादि । अत्रेदमवधातव्यं - गरुडेन मरकते पर्वतेऽमृतं पीत्वा पश्चाज्जवात्पीतं विषं वान्तं, तद्वनीभूतं मयूरतुत्थं भवति; तच्च भाराचं मयूरकण्ठच्छायं गुणवत् । दोलायन्त्रेण तच्चूर्ण वेदयित्वा, गन्धकलकुचद्रवेण टङ्कणेन च भावयित्वा, अन्धमूषामध्ये कुक्कुटपुटैर्द्वित्रिवारं म्रियते । तथा निम्बुद्रावटङ्कणाभ्यामेकीकृतं धमातं ताम्ररूपं सत्त्वं मुञ्चति । तत्सत्त्वं भूनागसत्त्वञ्चानयोर्मुद्रिकां कृत्वा मन्त्रेणानेन मुद्रिकाम्भो निपीतं सप्तवारं मन्त्रितं सद्यः शूलहरं, तथाऽङ्गे लिप्तं शूलहरं, तथा नार्या पीतं प्रसूतिकरं च ज्ञेयम् । खर्परसंज्ञकं रसकः, स हि द्विधा - दर्दुरः कारवेल्लकश्च; सदलो दर्दुरः, निर्दल: कारवेल्लकः, “रसकः सर्वमेहघ्नः कफपित्तविनाशनः । नेत्ररोगक्षयन्नश्च लोहपारदरञ्जनः ॥ नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ । श्रेष्टौ सिद्धरसौ ख्याती देहलोहकरौ परम् ॥ रसश्च रसकोभौ येनाग्निसहनौ कृतौ । देहलोहमयी सिद्धिस्तस्य दासी न संशयः ॥ कटुकालावुनिर्यास आलोच्य रसकं पचेत् । शुद्धं दोषविनिर्मुक्तं पीतवर्णं च जायते ॥ नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् । शुद्धं ताम्रं रसं चैव शुद्धं स्वर्ण प्रभं यथा”–इति। सत्त्वप्रकारस्तु - "साभयाजतुभूनागनिशाधूमं च टङ्कणम् । अन्धमूषागतं ध्यातं तुत्थं सत्त्वं विमुञ्चति ” - इतिः यद्वा "लाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्कणैः । सम्यक् संचूर्ण्य संपक्कं गोदुग्धेन च सूरणे ॥ वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् । ध्यात्वा ध्यात्वा समाकृष्य ढालयित्वा च शीतले ॥ सत्त्वं वङ्गाकृति ग्राह्यं सकस्य मनोहरम् । यद्वा जलयुतां स्थालीं निखनेत्कोष्टिकोदरे । सच्छिद्रं तन्मुखे मलं तन्मुखेऽधोमुखं क्षिपेत् ॥ मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेदृढम् । पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ॥ तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे । मर्दयेलोहदण्डेन भस्मीभवति निश्चितम् ” - इति सत्त्वप्रकारो ज्ञेयः । रसादिषु तु शोधयित्वैव दीयते। भूनागसत्त्वं तु स्वर्णरूप्यताम्रायस्कान्तभूमिषु जातान् भूनागान् तद्विष्ठां वा तदुत्पत्तितत्संश्लिष्टमृत्तिकां वा रजनीतोयैः प्रक्षाल्य, क्षुधितं कुक्कुटं रस० ४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy