________________
रसपद्धतिः। रसः गन्धकश्च आभ्यां भाविताः कूर्मपुटैस्त्रिमिदग्धा भस्मानि स्युः । ते च न्युत्क्रमेण कांस्यतारसुवर्णसंज्ञका जघन्यमध्योत्तमा उदिताः । वृष्याः शुक्रप्रदाः। पाण्डुपटीयसः पाण्डुघ्नाः । तथा बलकरा योगेषु युक्ताः सन्तः बलकरा भवन्ति। अत्रेदं ज्ञेयम्-कान्यकुब्जदेशोत्थमाक्षिकः सुवर्णवर्णः, तपतीतीरसंभूतस्तु पञ्चवर्णः तारमाक्षिकः पाषाणबहुलः । तस्य शुद्धिमाह-त्रिफलाक्काथे संतप्तो माक्षिकः सप्तवार शुध्यति । त्रिंशदंशेन नागेन संमिश्रं क्षौद्रघृतैरण्डतैलेन भावितं कर्कोटीकदलीकन्दयो रसे गोमूत्रेण च भावितं मूषाध्मातं शुल्बसदृशं सत्त्वं मुञ्चति । अत एवोक्तम्- “एरण्डोत्थेन तैलेन गुञ्जाक्षौद्रं च टङ्कणम् । मर्दितं तस्य वापेन सत्त्वं माक्षिकजं द्रवेत्" इति ॥ ४९ ॥ ५० ॥
अथ तुत्थादिशोधनमाहद्विस्तुत्थं तु मयूरखर्परभिदा तत्राद्यमाहुः शिखिग्रीवाकान्ति तदम्लवर्गलुलितं स्नेहेन सिक्तं पुनः ॥५१॥ दोलायां परिपकमश्वसुरभीमूत्रे दिन शुध्यति वण्यं कान्तिकरं विषापहरणं चक्षुष्यमेतन्मतम् । घसं सामि करञ्जतैलनिहितं पादांशसौभाग्यकं ध्मातं तुत्थरजोऽन्धपात्रपिहितं दीप्तं च काष्ठत्रयैः ॥५२॥ यद्वा मानुषनीलकेशनिहितं सत्त्वं विमुश्चेत्क्षणात्तानं शोणितबन्धु बन्धुरमथो भूनागसत्त्वं तथा । एताभ्यां रविवासरे रचितया संप्लावितं मुद्रया पीतं वारि विषापहं ग्रहहरं सद्यः प्रसूतिप्रदम् ॥ ५३ ।। तद्वत्तत्परिमृष्टतप्ततिलजस्नेहोऽमुना मन्त्रितो मत्रेणाशु निहन्ति शूलमतुलं दृग्गोषभूतग्रहान् । सद्यः स्त्रीप्रसवप्रदो निगदितः सद्यो व्रणारोपणो लिप्तो लोचनयोहितो विनिहितः प्राग्भालुकिमोदितः॥५४॥ 'रामवत्सोमसेनानीमुद्रिकेति तथाक्षरम् । हिमालयोत्तरे पार्थे अश्वकर्णो मरुद्रुमः ॥ तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ।' टी०-तुत्थं द्विविधं-तत्राद्यं मयूरकण्ठच्छायमाहुः नीलवर्णमित्यर्थः । तद१ 'दीप्ते च काष्ठोपलैः' इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com