________________
रसपद्धतिः ।
३५
विधः -- हेमपूर्वकः, द्वितीयस्तारपूर्वकः, तृतीयः कांस्यविमलोऽप्यस्ति । तत्तत्कान्त्या लक्ष्यत इत्याह- इह त्रेधेति । विमलाशब्दस्त्रिलिङ्गः । माक्षिकाद्भेदकं लक्षणमाह - तिस्रोऽपीति । फलं असं, धारा चिपिटं वृत्तं वर्तुलं, खनामश्रिय इत्यनेन सुवर्णादिप्रभा उक्ता । अत एवोक्तम्, “ तत्तत्कान्त्या स लक्ष्यते । वर्तुलः कोणसंयुक्तः सुस्निग्धः फलकान्वितः । मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः "इति । विमलस्तु तपतीतीरे पर्वतभागे दृश्यते, तस्य कांस्यमाक्षिकमिति नाम वदन्ति । तत्र हेमपूर्वो हेमक्रियासु योज्यः, द्वितीयस्तु श्वेतक्रियासु, तृतीयस्तु रसादिषु प्रयोज्यः । तस्य शुद्धिप्रकारमाह - मध्येत्यादि । वासा अटरूषः, अजशृङ्गी मेषशृङ्गी, अनयोः रसे चूर्णीकृत्य, वस्त्रबद्धं कृत्वा, दिनं खिन्ना तथा निम्बुरसे खिन्ना शुध्यति । पश्चात्तालकः बलिगंन्धकः, तेन अष्टमांशेन जम्भाम्भसा त्रिवारं भाविता दशपुटैर्न जीवेत म्रियते । पुढे च प्रत्येकं भावना देया । तद्भस्म योगानुगं भवति । यत्र रसे उक्तं तत्र तत्र प्रयोज्यम् । तथा मेषशृङ्गीटङ्कणक्षाराभ्यां लकुचद्रावैर्मर्दयित्वा विमलां मूषोदरे लिप्त्वा, संशोष्य, निरुध्य पश्चादन्धमूषां कृत्वा, षट्प्रस्थको किलैः कोष्ठ्यां ध्माता, शीससंनिभं सत्त्वं मुञ्चति । तद्युक्तो रसः रसायनं भवति । अथवा गोक्षुरक्षारयुक्तं विमलं काङ्क्षीकासीसटङ्कणैरपि वज्रवल्लीकन्दे शिग्रुरम्भातोयैः भावितं पूर्ववन्मूषालेपं कृत्वा, चन्द्रार्कसदृशं सत्त्वं पतति । द्रुतिस्त्वभ्रादिद्रुतिवत्कार्या । एतस्यानुपानं तु — वेलव्योषवरान्वितघृतैः सेविता भगन्दरादिसर्वरोगाजयति ॥ ४८ ॥―
अथ माक्षिकम् ---
माक्षीको द्विरिहादिमः कनकरुग्दुर्वर्णवर्णोऽपरः कांस्य श्री मुशन्ति केचन परं सर्वेऽपि पूर्वत्विषः ॥ ४९ ॥ निष्कोणा गुरवः किरन्ति निभृतं घृष्टाः करे कालिकां स्विन्नास्ते रुवुतैललुङ्गसलिलैर्यामेन शुध्यन्ति च । पक्का वा घटिकाद्वयेन कदलीकर्कोटिकाकन्दयोदग्धाः कूर्मपुटैस्त्रिभिः पटुतरं लुङ्गाम्बुगन्धप्लुताः ॥ ५० ॥ स्युर्भस्मानि जघन्यमध्यसुभगास्ते व्युत्क्रमेणोदिता वृष्याः पाण्डुपटीयसो बलकरा योगोपयोगात्पुनः ।
टी० - माक्षिको द्विविधः - स्वर्णमाक्षिको रजतमाक्षिकश्चेति; दुर्वर्ण रजतं, केचन कांस्यमाक्षिकमुशन्ति, सर्वेषां स्वस्ववर्णत्वात् । लक्षणमाह - निष्कोणा धारारहिताः, गुरवो भारयुक्ताः, करे घृष्टाः कालिकां किरन्ति । शुद्धिमाह -ते इति । ते उरुबूकतैललुङ्गसलिलैः पिष्टाः शुध्यन्ति । अथ पश्चालुक्यम्बु मातुलिङ्ग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com