________________
१८
लोहसर्वस्वम् । तस्मिंश्च दिव्यौषधिसिद्धरुक्मलोहात्पलद्वादशकं निदध्यात् ॥ तथा विडङ्गत्रिपलं त्रिकर्ष पृथक् पृथक् विश्वकणौषधानाम् ।। पलं विचूाथ पृथग्वरायाः शिलाजतुक्षोदपलव्यं च ॥ ततश्चतुर्विंशतिमुष्टितुल्ये घृते पचेत्तन्मृदुनाऽनलेन ॥ १७५ ॥ ततः सुशीते मधुशर्कराभ्यां पलानि दत्त्वा नव सम्प्रयुक्तम् ॥ निर्णष्टमग्निं कुरुतेऽतिदीप्तमीसि निर्णाशयते षडेव ॥ १७६ ॥ गुल्मोदरप्लीहविवन्धमामवातग्रहण्यामयमामशूलम् ॥ सपित्तशूलं श्वयधुं च वृद्धमष्ठीलिकापाण्डुगदप्रमेहान् ॥१७७॥ त्यजेत्करीरादिककारपूर्व मांसं तथाऽऽनूपसमुद्भवं च ॥ विदाहि विष्टम्भि च दोषलानि भक्ष्यान्नपानानि निजाप्तबुद्धिः।।
तदाह चर्पटि:( कदली कर्कटी क्रौची कलिङ्गं कारवेलकम् ॥ काकमाची च कूष्माण्डं कपोतश्चेति कादिकः ॥ इमे संयोगतो दुष्टाः कुर्वन्ति विविधान् गदान् । तत एतत्ककाराष्टं वर्जयेल्लोहभक्षकः ॥)
___ भल्लातकलोहम् । वराग्निचव्याम्बुदहस्तिपिप्पलीकुठेरटिण्टूत्पलपिप्पलीजटाः॥ गुडूच्यपामार्गयुताश्चतुष्पला द्विधाकृताभिर्द्विसहस्ररुष्कराः १७९ पक्खा जले द्रोणमितेऽशिसंस्थिते क्षिपेत्सुसिद्धादयसस्तुलार्धकम्।। विचूर्णितत्र्यूषणकैरलीवराविडाग्निसौवर्चलसैन्धवोद्भिजान १८० पृथक् पलं शूरणचूर्णमानिकां चतुष्पलं चूर्णितवृद्धदारकात् ।। तथैव संचूर्णिततालमूलकात्ततः पचेत् सर्पिपि मानिकोन्मिते ॥ सुशीतले मिन् मधुनः पलाष्टकं क्षिपेत्ततो वहिबलाद्यपेक्षया ॥ भजञ्जयेत् कुष्ठमुदारपाण्डुतां प्रमेहम♚ग्रहणीरुजं कृमीन् ।
वासाद्यं लोहम् । वासामृतामुण्डितिकाबलावरीभाीसुगीतागदतालमूलिकाः ॥ खचो वरायाः पलपञ्चकोन्मिताः पृथग्जले द्रोणमिते पचेत्ततः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com