________________
लोहसर्वस्वम् । विनिक्षिपेदष्टमभागशेषिते पलानि च द्वादशरुक्मलोहतः॥ तथैव खण्डात् पलषोडशोन्मिते ततः पचेत् सर्पिषि ताम्रभाजने। ततो विचूाश्मजतु बचं शुभामजाजिजन्तुघ्नविषाणिकाकणाः।। सशृङ्गवेराः पलसम्मिताः पृथग्वंरोषणं धान्यकपत्रकेशरम् ॥ पृथक् पलार्ध मधुसर्पिषोः पृथक् पलाष्टमाक्षिप्य विलोड्य भक्षयन् पयोघृतप्राज्यमथाज्यसंस्कृतं भजेत भोज्यं गुरुवृष्यबृंहणम् ।। अक्लिष्टमारक्तकरं कपोतकादिकं ककारादिकमामिषं त्यजेत् ॥ जयेदसृपित्तवमि क्षयोदरे प्रमेहकासश्वयधुंश्च पाण्डुताम् ॥ सशीतपित्तानिलरक्तमुल्वणं क्लमं च शूलं परिणामसम्भवम् ॥ लभेत चोग्रां वृषतां बलं रुचि हुताशवृद्धिं च शरीरबृंहणम् ॥
योगराजामृतम् ॥ वराग्निजन्तुम्नकटुत्रिकाणां पृथक् पृथक् ते त्रय एव भागाः॥ सरौप्यकिट्टादथ माक्षिकस्य तथाऽयसः पञ्च पृथग्विभागाः ॥ सिताष्टभागेन सनाथमेतचूर्ण जयेन्माक्षिकसम्प्रयुक्तम् ॥ पाण्ड्वामयं यक्ष्म सपित्तशूलं हृद्रोगमझेंग्रहणीविकारम् ॥१९०॥
धात्रीलोहम् ॥ धात्री कणाव्योषरजोरजोऽयसः समं घृतक्षौद्रसितान्वितं भजन॥ निवारयेदुद्धतकामलागदं सपाण्डुरोगं ग्रहणीगदक्रिमीन् ॥१९१
विडङ्गाद्यं लोहम् ॥ विडङ्गमुस्तत्रिफलाषडूषणैः सदारुभिस्तुल्यवृतैरयोरजः ॥ समं विपाच्याष्टगुणे गवां जले भजञ्जयेत् पाण्डुगदं सकामलम् ॥
चतुर्दशायसम् ॥ कर्पूरचित्रकशिलाजतुमुस्तवेल्ल
तालीसनागरकणोषणनाकुलीभिः ॥ साक्षाभयामलकदर्दुरपर्णिकाभि
स्तुल्यं रजो जयति लोहजमाशु कासम् ॥१९३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com