________________
लोहसर्वस्वम् ।
लोहपात्र स्थितं शोष्यमल्पमल्पं सुखाग्निना ॥ .. कृला चतुर्गुणं लोहात् फलत्रिकमतो जलम् ॥ ४३ ॥ चतुर्गुणं पचेदत्र ग्राह्यं तत्पादशेषितम् ॥ लोहमेवं निरुत्थं स्यादमृतादधिकं गुणैः ॥४४॥
मृतलोहपरीक्षा। सम्भावितसमुत्थानं नैवाद्याद्विक्रियाभयात् ॥४५॥ एतद्वधपरीक्षार्थमन्धमूषागतं धमेत् ॥ मधुटङ्कणताराज्ययुक्तमेतदयश्चिरम् ॥ ४६॥ तत्र पूर्वमितं तारं यदि तत् सिद्धमेव च ॥ जानीयादधिके तारे लोहं सम्भावितस्थितिम् ॥ ४७ ॥ इति प्रोक्तः समासेन स्थालीपाकविधिक्रमः ॥ विना लोह विधानेन सकला निष्फलाः क्रियाः ॥४८॥
पुटपाकविधानेन लोहमारणम् । अथ तचूर्णितं वन्यकरीषैत्रिफलाम्भसा ॥ प्लुतं गर्ते निवाते त्रिः शरावपुटके पुटेत् ॥ ४९ ॥ तद्गर्त यन्मतं तज्ज्ञैः सर्वतः षोडशाङ्गुलम् ॥ तत्र पञ्चपलात् प्रायो लोहं सप्तपलावधि ॥ ५० ॥ . गर्तमानं प्रशंसन्ति सर्वतो हस्तसंमितम् ॥ द्रावेण लोडितं लोहं यावता भवति द्रवम् ॥ ५१ ॥ द्रवमानं तदेवात्र पुटपाकविधौ मतम् ।। कल्काम्बुखरसकाथभेदेन त्रिविधो द्रवः ॥ ५२ ।। सङ्कीर्तितोत्र पुटने मुनिभिः सुश्रुतादिभिः॥ तत्र कल्कोऽल्पपानीयपिष्टः कल्काच्युतो द्रवः ॥ ५३॥ अतोयात् खरसः काथो द्रव्येण कथितं जलम् ।। , तत्सिद्धं मृदुनि द्रव्ये चतुर्गुणितवारिणा ॥ ५४॥ ...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com