________________
लोहसर्वस्वम् ।
अम्लकाञ्जिकसम्पिष्टैस्तल्लोहं सान्द्रलेपितम् ॥ चतुष्टयेष्टकाकोष्ठे खदिराङ्गारपूरिते ॥ ३१ ॥ विन्यस्य ध्मापयेद्यवाचिरं भवाद्वयानिलैः ॥ ततस्तद्रवतां यातं स्थितं मध्येष्टकावटे || ३२ ॥ लोहाङ्कुशेन त्रिफलाकाथे तप्तं विनिक्षिपेत् ॥ शिलाहिङ्गुलमाक्षीकैः सर्वैरेकैकशो द्विशः ॥ ३३ ॥ जम्बीरद्रवनिष्पिष्टैः सैन्धवेन समायुतैः ॥ आलेप्यमयसः पत्रं त्रिफलापिण्डमध्यगम् ॥ ३४ ॥ विद्रुतं पूर्ववद्धीमान् त्रिफलाम्भसि निक्षिपेत् ।। एवं हि म्रियते लोहं सर्वमेव न संशयः ॥ ३५ ॥ अथवा सैन्धवोपेतैर्जम्बीरद्रव पेषितैः ॥ पूर्ववत्रिभिरेवैतैर्मिंश्रितं तत्सुंरेतितम् ॥ ३६ ॥ मारयेत् पुटपाकेन भूयसा गोमयाग्निना ॥ अथवा शोधितं लोहं रेतितं काञ्जिकाम्भसा ॥ ३७ ॥ तं सूर्याशुतापेन मारयेत्कतिचिद्दिनैः ॥ अथवा रेतितं लोहं घटस्थे त्रिफलाम्भसि ॥ ३८ ॥ क्षिप्तमागारगर्भस्थं वर्षेण सुमृतं भवेत् ॥ अथापनीय किट्टादि तदयस्त्रिफलाजलात् ॥ ३९ ॥ उद्धृत्य लोहदण्डेन लोहपट्टे विचूर्णयेत् ॥ ततोऽस्मिन् सान्द्रतां नीते गालिते सूक्ष्मवाससि ॥ ४० ॥ स्थालीपाकं यथा कुर्यात्तथा विधिरिहोच्यते ॥ ताप्यमश्मभिदः पिण्डे शृतं कोलस्य वारिणि ॥ ४१ ॥ विचूर्ण्य षोडशांशेन लोहपट्टे विचूर्णयेत् ॥ ततोऽस्मिन्माक्षिकोन्मानं हिङ्गुलत्रिफलाजलम् ॥ ४२ ॥
१ सुरेतितं सुचूर्णितम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com