SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ लोहसर्वखम्। मारणार्थ लोहपत्रप्रमाणम् । चतुरङ्गुलविस्तीर्णमायामैश्चतुरङ्गुलम् ॥ २०॥ . तिलोत्सेधतनुं चैव लोहपत्रं प्रचक्षते ॥ लोहशोधनविधिः । अथाग्निना प्रतप्तानि लोहपत्राणि निक्षिपेत् ॥ सप्तवारान् वराकाथे गिरिदोषप्रशान्तये ॥ २१ ॥ वरां चतुर्गुणां लोहात्ततो वारि चतुर्गुणम् ॥ दत्त्वा निष्काथयेत्तावद्यावत्पादस्थितं भवेत् ॥ २२ ॥ लोहस्य मारणाद्यर्थ त्रिफलाक्काथविधानम् । अथास्यैवं विशुद्धस्य मारणे विधिरुच्यते ॥ प्रोक्तः सुश्रुतहारीतव्याडिनागार्जुनादिभिः ॥२३॥ तत्र त्रिगुणितं लोहात्समादाय फलत्रिकम् ॥ चतुर्गणे जले पक्त्वा ग्राह्यं पादावशेषितम् ॥ २४ ॥ लोहमारकाण्यौषधानि । अथ मारणकर्मार्थे कथ्यन्ते भेषजानि च ॥ तत्र गण्डिणिका मुख्या कचित्प्रोक्ता महौषधिः ॥ २५ ॥ कचित्सा सालहश्चीति हरित्पीति सा कचित् ।। दिव्यौषधीति सा कापि कचिन्मर्तकलम्बुका ॥ २६ ॥ अन्यत्समानं चाङ्गेयाः कुठारच्छिन्नसंज्ञकम् ॥ विकङ्कतं तृतीयं च चतुर्थ रक्तमारिषः ॥२७॥ पञ्चमं त्वचकं प्रोक्तं षष्ठमुक्तं मनःशिला ॥ हिङ्गुलं सप्तमं प्रोक्तमष्टमं वर्णमाक्षिकम् ॥२८॥ एतानि क्रमशो हन्युः पित्तं कफमसृग्दरम् ॥ विविधां पाण्डुतां कण्डूं वह्निमान्य विवर्णताम् ॥ २९ ॥ लोहमारणविधिः । अत्रायैः पञ्चभिर्द्रव्यैरेतैरेककैशो द्विशः॥ त्रिशश्चतुर्भिः सर्वैर्वा बहुसैन्धवसंयुतैः ॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy