SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ लोहसर्वखम् । लोहोत्पत्तिः। पुरा लोमिलदैत्यानां निहतानां सुरैयुधि ॥९॥ उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च ॥ लोहमेदानां लक्षणानि गुणाश्च ।। तत्र मस्तकजातानि शीतवीर्याणि तानि च ॥ १० ॥ घनदीर्घाङ्गयुक्तानि सिद्धानि सुरभीणि च ॥ वारिदस्निग्धगम्भीरखराणि मधुराणि च ॥ ११ ॥ पित्तव्याधिहराण्याहुरमूनि सकलान्यपि ॥ (अत्रान्तरा ग्रन्थपातः ) . लोहं सारायं हन्याद्रहणीमतिसारकम् ॥ १२ ॥ औडूं सार्वाङ्गिकं वातं शूलं च परिणामजम् ॥ छर्यतीसारपित्तानि ग्रहणी च नियच्छति ॥ १३ ॥ वन्ध्याया गर्भदं बल्यं क्षयहद्धातुवर्धनम् ॥ रसायनप्रयोगेषु शस्यते च कलिङ्गजम् ॥ १४ ॥ चरं छदि क्षयं रक्तपित्तं भद्राह्वयं जयेत् ॥ स्रसनं दीपनं गात्रभेदनं कफवातजित् ॥ १५ ॥ ग्रहण्यर्चाविकारनं लोहं वज्राभिधं मतम् ॥ शोथार्शःश्वासकासांश्च प्रमेहान् विषमज्वरान् ॥१६॥ गुल्मांश्च पाण्डुरोगांश्च पाण्डिलोहो नियच्छति ॥ कान्तजं जयति प्लीहमम्लपित्तं शिरोरुजम् ॥१७॥ गुल्मोदराश्मरीशूलमामवातं भगन्दरम् ॥ नीरवं कामलाशोथकुष्ठक्षयहरं मतम् ॥१८॥ ओजः पुष्टिं बलं यं दत्ते जनयते सुतान् । सर्वान् विजयते रोगान् कान्तलोहं न संशयः ॥ १९ ॥ यल्लोहं यद्गुणं दृष्टं तकिट्टमपि तद्गुणम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy