________________
श्री सुरेश्वरवैद्यविरचितं लोहसर्वस्वम् ।
मालाचरणम् । वन्दे विबुधगणार्चितचरणं शरणं समस्तभूतानाम् ।। हिमगिरितनयाकान्तं त्रिलोचनं तुहिनकारूढम् ॥१॥
प्रन्थप्रयोजनम् । धर्मार्थकाममोक्षाणां शरीरं सिद्धिकारणम् ॥ तच तत्सिद्धये योग्यं भवत्यरोगमेव हि ॥२॥ तदारोग्यक्रियासिद्धौ भेषजानि बहूनि च ॥ मूललोहादिकान्याहुमुनयः सुश्रुतादयः ॥३॥ तत्र नानारुजाक्रान्तशरीराणां शरीरिणाम् ।। क्षीणानां दुर्बलामीनां भेषजद्वेषिणामपि ॥४॥ खादुत्वात्स्वल्पमात्रत्वाल्लघुपाकितयापि च ॥ प्रत्युप्रतरवीर्यत्वाल्लोहमेव प्रशस्यते ॥५॥ इति सुश्रुतहारीतव्याडिनागार्जुनादिभिः॥ प्रोक्तानि लोहतत्राणि समालोक्य सुरेश्वरः ॥ ६॥ ब्रवीति लोहसर्वस्वं श्रीमद्भद्रेश्वरात्मजः ॥ ...
लोहमेदाः। लोहं तच्चाष्टधा तत्र चतुर्णामत्र संग्रहः ॥७॥ नानामुनिमतप्रोक्तप्रयोगफलदर्शनात् ॥ तानि तीक्ष्णाभ्रहेमार्कसंज्ञकानि वदाम्यथ ॥ ८॥ उत्पत्तिलिङ्गसंशुद्धिसिद्धियोगसुयोजनैः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com