SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । ॥ध्रुवाख्यानम् ॥ द्वितीयो भागः ध्रुवस्य नगरानिष्क्रमणं श्रुत्वा विस्मितो नारदो मुनिर्धवमागत्यागदत् । हे पुत्रक! क्रीडनेसक्तस्य कुमारस्य तव कोऽवमानः संमानो वा ? अस्मिन्विषये व्यर्थस्तव निर्बन्धः। निवर्तस्व, विरम प्रयत्नादिति । ध्रुवः प्रत्यवदत् । ऋषे! सुरुच्या दुर्वचनेन ताडितोऽहं त्रिभुवने परमोचं पदमलब्ध्वा न तुष्यामि । तत् कथय कथं प्रीणयामि वासुदेवम्-इति । तस्य भाषणेन परं तुष्टो नारदोऽवदत् । तात ! गच्छ यमुनायास्तटं पावनम् । तत्र पुण्यं मधुवनमस्ति यत्र हरेनित्यं सानिध्यम् । तत्र कालिन्द्याः शिवे सलिले स्नात्वा सुभद्रं वासुदेवस्य रूपं चिन्तयेति । एवं नारदेनोक्तो ध्रुवो मधुवनमव्रजत् । तत्र च वासुदेवस्य ध्याने निमग्नोऽभवत् । ध्रुवस्य भक्त्या भृशं तुष्टो वासुदेवस्तस्मै तारामण्डले ध्रुवमिति शाश्वतं स्थानमयच्छत् ॥ [श्रीमद्भागवतम्] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy