________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
सूक्तिरत्नानि
द्वितीयो हार भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥२२ ।। पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥ २३ ॥ नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दर्लभं तत्र शक्तिस्तत्र सुदर्लभा ॥२४॥ गुणो भूषयते रूपं शीलं भूषयते कुलम् । सिद्धिभूषयते विद्या भोगो भूषयते धनम् ।। २५ ॥ आनृशंस्यं क्षमा सत्यमहिंसा च दयाऽस्पृहा । प्रीतिः प्रसादो माधुर्यमार्जवं च यमा दश ॥ २६ ॥ विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥ २७ ॥ क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा। क्षमा वशीकृतिलोंके क्षमया किं न सिध्यति ॥२८॥ साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थ सद्यः साधुसमागमः ॥ २९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com