________________
प्रश्रभूषणम् ।
लग्नजायाधिपैौ खस्यैौ यदि वा व्यत्ययेन तैौ ॥
दिने दिने ऽधिका प्रीतिर्द्दम्पत्योर्जायते मिथः ॥ ६१ ॥ नरो लग्नपतिः कामे जायाज्ञाप्रतिपालकः ॥ नारी जायाऽधिपे लग्ने पत्याज्ञाकारिणी भवेत् ॥ ६२ ॥ लग्नजाय भयोर्हष्टिग्ने वा सप्तमे तयोः ॥ परस्परं तदा प्रीतिः पोयूषसदृशी भवेत् ॥ ६३ ॥ प्रश्न लग्नपतिः खोच्चे गुणैरुच्चो भवेत्पतिः । जायास्वामी यदोच्चस्थो नारी खामिगुणाधिका ॥ ६४ ॥ सप्तमे सुखभे क्रूरा भार्गवो यदि दुर्बलः ॥ न जीवति तदा नारी राहुर्वा कामिनीगृहे ॥ ६५ ॥ चतुर्थ सप्तमं चैव पञ्चमं सौम्यवीचितम् ॥ विवाहिता घृता चापि द्वे भाय्यै भवतस्तदा ॥ ६६ ॥ सप्तमे खलसंयुक्ते चतुर्थे शुभ संयुते ॥
म्रियते प्रथमा नारो धृता च परितिष्ठति ॥ ६७ ॥ पापग्रहाः स्थिरे राशैौ खपतेः पुत्रसंभवः ॥ शुभाशुभाः स्थिरे लग्ने मिश्रितः पुत्रसंभवः ॥ ६८ ॥ कुजो मन्दः सुतस्थानं प्रपश्यति यदा तदा || चन्द्रदृष्टिं विना तत्र जारजातः सुतो यतः ॥ ६८ ॥ चन्द्रादित्यैौ खला कान्तावङ्गं जीवो न पश्यति ॥ कलाहीनो यदा चन्द्रस्तदा गर्भः परोद्भवः ॥ ७० ॥
इति स्त्रीप्रश्नः ॥ अथ गर्भप्रत्रः ॥
गर्भस्य कुशलप्रश्ने पश्च मे पापखेचरः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com