________________
नं.८
पंडित गटुलालजीना शिष्य शास्त्री माधवजी गोपाळजीनो अभिप्राय.
स्वस्तिश्री श्रीमत्सकलकलाकलापकुशलेषु श्रीधर्मपुरवास्तव्येषु समस्त गुणगणस्तव्येषु भूरिभगवद्भावभव्येषु स्वधर्मसंरक्षणकरणपरायणांतःकरणेषु श्रीदरवार श्रीमोहनदेवजी वर्मसु श्रीमोहमयीतो गोपालतनुजनुषो माधव शास्त्रिणः शुभाशिर्वादः ॥ अत्रशं तत्रास्तु-अपरंच-भवत्प्रसिद्धपत्रद्वारा विदित मस्माभिरुदन्तजातं निःशेषहिंसात्मकप्रश्नोत्तरदाने न वयं द्रव्यस्वीकारणी भूतांतःकरणाः। किंतु यथा भवदीयं भावतकं भवेत् तदैहिकं पारलौकिकं तथैव शास्त्रानुसारेण निष्पक्षपाततया मया प्रोच्यते” तदाचरणकरणे भवदीय मन्तः करणं प्रमाणं ॥ किंच-भवत्प्रसिद्धिपत्रास्योत्तरं सशास्त्रं यद् परिपति लौकिका लौकिकक्षमकरं यत्प्राचीनमन्वादिभिरनुष्टितं यदनुष्टानतः सर्वे परां सिद्धिमितो गताः तन्मार्गचरणं भवद्भि रुररीकार्य इतिमे मनीषा-तदित्थम् ॥ सर्वत्रवेदाः प्राथमिकं प्रमाणम् । तदनुरोधेन द्वितीयं प्रमाणं गीता ॥
ततश्च व्याससूत्राणि-तदनन्तरं महाभारतं भागवतं च इदम्प्रमाणचतुष्टयं सर्वधर्माचार्यैःस्वीकार्यम् ॥ तत्रयल्लिखितं तदनुष्टेयम् ॥ तद्विरुद्ध नहिकार्यतेषु प्रमाण चतुष्टयेषु परमात्मन उपासनाएव ब्राह्मणक्षत्रियादीनां विहिता नत्वन्यत्--सोपासना ज्ञानपूर्वकभक्तिरूपा तामत्र सविस्तरं न ब्रूमहे-वस्तुतस्तु वक्त व्यांशस्तावदियानेव-पूर्वसूरिभिर्यत्स्वीकृतंतदेव भवदीयभावत्ककरं । तदित्थं देव्यादीनांपूजा वाममार्गेण न विधेया-यत्र वाममार्गे पशुहिंसा सा नोचिता यदाचरणेन नरके नराणां पातइति वेदा वदन्ति गीतादिग्रंथा अपि । किं च ॥ श्लोकः ॥ अहिंसा सत्यमस्तेयमकामक्रोधलोभता ॥ भूतप्रियहितेहा च धर्मोऽ यं सार्ववर्णिकः ॥ इति भागवतं ॥ अन्यान्यपि संति वचनानि-देवद्विज गुरु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com