________________
प्राज्ञपूजनं शौच मार्जवम् ॥ ब्रह्मचर्य महिंसा च शारीरं तप उच्यते ॥ इति गीताच-अन्यान्यपि सहस्रवचनानि हिंसानिषेधकारणभूतानि विद्यन्ते विस्त रभयान्नोलिखितानि॥अथ देवी तामसी मूर्तिः सा तामसै रेखो पास्यान वयं तामसाः तामसानां तामसगतिः नास्माकं सागतिः। अस्माभिस्तु मनुप्रह्लादांबरीशपांडव श्रीरामचंद्रप्रभृतिप्रचलितमार्ग एवं शुभकर उपास्यः-तैःकदाचिदपि हिंसालेशोऽ पिनाकारि नहि कार्यश्च । तस्माद् हे राजन् यदि शुभैकपरायणं भवदीयं चेतश्चेत्-अहिंसामुख्यो धर्मः ॥ सर्वत्र वेदादिषु अहिंसैव प्रतिपादिता-किंबहूतेन-एतद्विषये यदि विशेषाग्रहश्चेद्वयं भवत्संनिधावागत्य हिंसानिषेधं सशास्त्रं सहस्रप्रमाणपुरःसरं प्रतिपादयिष्यामः-अपरंच अत्रत्यैर्योगानंदस्वामिशिरोमणिभिरपितथैवाभाणि-तदित्थम्-देव्यै पशुहिंसा कार्येत्यंधपरंपरा तविधिहेमाद्रौतंत्रोक्तः अस्माकममान्यः भूपानां क्षात्रकुलोत्पन्नानां विष्णुरुपास्यः। स विषयः सामवेदे निर्णीयते-सामवेदप्रतिपादनं हेमाद्रिवचनतः प्रबलं-अंधपरंपर! कथं प्रचलति तद्विषये राज्ञः खंडेरायवर्मण इतिहासोऽवादि "केनाप्यागत्याभाणि नारायणोऽस्माकं प्रसन्नो जात इति तत्कथनेन मुग्धो राजा सन्मान माचरत् इति इतिहासः ममापि पूर्वावस्थायां मदीय देशस्थराज्ञा हिंसाचरिता सा ममजनकेन निर्मूला कृता, अन्यत्र सा देवी स्थापिता
हिंसाचरणेन जायंत उपद्रवाः-आचरणाभावतो रोगादिनां शांति रुपदिष्टा शास्त्रेषु ॥ महाभारतेऽपिव्यासेनाभाणि मांसभक्षणव्यसनिना यदि मांसत्यागो विधीयते तदासहस्रराजसूययज्ञकारणं पुण्यं भवति-अंधपरंपरया यदि हिंसा के नापि क्रियते सा दैवयोगेन पुण्यवता राज्ञा निवारिता-कदाचित् किमपि कारण मुद्दिश्य मस्तकशूलं राज्ञो जातं तदानी हिंसाप्रियैर्दैवीभक्तै स्तामसै रुच्यते यत् भोराजन ! परंपरागतहिंसारूपं बलिदानं भवद्भि निषिद्धं तेन भवन्मस्तके दुःखं समुत्पन्नमिति मूर्ख मूल् राजा बोध्यते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com