SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ नं. ३ वडोदरावाळा रामकृष्ण शास्त्रीनो अभिप्राय. (संस्कृतमां.) अस्ति स्वस्तिश्री धर्मपुरराज्यासनालङ्कारभूतो धर्मनिष्ठः श्रीसप्तसमेतः श्रीमोहनदेवनामा भूमिवृढः सच सर्वप्राणिसुखदुःखमात्मसदृशंमन्वानःकेवलंधर्मप्रवणमना मनागपि हिंसायांप्रवृत्तिमकुर्वाणो निर्वाणोत्कंठितांतःकरणः करणासक्तिनियमयन धर्मभीरुतया मया किं कर्तव्यं किं न कर्तव्यमितिसंशयानः सर्वत्रापि शास्त्रानुज्ञां समीहमानः किंचित् प्रश्नयति "आप जाणोछो विगेरे." अत्रतावदिदंविचार्यते किं एतावत्कालपर्यंतं प्रचलितकर्मधर्मत्वेन प्रगृहीतमधर्मत्वेन वा? यदि च धर्मत्वेनेतिचेन्नास्ति प्रश्नावकाशः परंपरागतधर्मस्य राज्ञोऽवश्यकतव्यत्वात् । न च धोऽपि परमतालोचनतया धर्मइवाभासतइति परिहेयः । परमतविरोधस्याकिंचित्करत्वात् । अत एवोच्यते “स्वधर्मे निधनं श्रेयः, परधर्मोभयावहः" किं च यदि परमतविरोधस्यापि परिजिहीर्षा, तर्हिसानयुक्ता, दानपञ्चमहायज्ञादि परित्यज्य सर्वेषां श्रमणत्वपरिग्रहापत्तेः । अस्ति च परमते जलव्ययादिना जीवहिंसारूपोऽधर्मः । यवनैरपि जलव्ययभीरुता स्वीक्रियते मासिकर्तुसमयइति. प्रसिद्धतरम् किंबहुना जातिभेदहानिरपि इदानीमेव कर्त्तव्या स्यात् सर्वेषामिति महान् कोलाहल स्यात् ॥ किं च ॥ "क्षत्रियस्य विजितम्" ॥ इति स्मृत्या क्षत्रियस्यजयलब्धस्वामित्वमुक्तं तन्नैवघटेत अस्ति च जयेजयेपरसैनिकप्राणवियोगानुकूलव्यापाररूपाहिंसाजागरूका । न च क्षत्रियस्य शस्त्रनिष्टता एवधर्म इति विष्णुस्मृते रणेशस्त्रव्यापारेन दोषइति । राज्यश्रुतिस्मृतिसदाचाराणां पूर्वपूर्वस्यबलीयस्त्वेन सर्वभूतहिंसा न कर्त्तव्येत्यर्थिकायाः श्रुतेः स्मृत्यपेक्षया प्रबलत्वेन वैष्णवस्मृतेरकिंचित्करत्वापत्तिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy