________________
९७
पादनेन कृत्वर्थो यज्ञांगरूपो यः कर्त्ता यजमानस्तस्य यत्प्रतिपादनं इश्वराभेदेन स्तुत्या वर्णनं तेन प्रकारेण यथादित्योयूपः प्रस्तरोयं यजमान इत्यादौ यूपः स्तुत्या पशुनियोजनादि क्रियायामन्वेति तथा उपनिषद्वाक्यैरीश्वरभेदेन स्तुत्या पशुनिक्रियायामन्वेति यजमानोपि कर्त्तृत्वेन क्रियामन्वेति इति भावः ॥ एतेन विधिना वेकवाक्यत्वादित्यादिपूर्वोक्त सूत्रस्यायमथः तत्र शब्दः पूर्वपक्षव्यावृत्यर्थः ॥ आम्नायस्य क्रियार्थत्वात् आनर्थक्यं असदर्थानां तस्मादनित्यमुच्यत इति भैमांसकानां सूत्रे यदुक्तं आनर्थक्यं अतदर्थानां तन्न विधिना स्वस्य प्रयोजनवदर्थपर्यवसायित्वं गमयितामह ॥ एकवाक्यत्वात् वाक्यानि स्त्युत्यर्थेन स्तुत्यंगत्वेन विधीनां स्यः विधिशेषाणि भवतीतिसंक्षेपः ॥ तत्वमस्यादिवाक्यानां यजमा नस्तुतिद्वारा क्रियापरत्वं न संगच्छेत् ॥ एकमेवाद्वितीयं ब्रह्म 'विज्ञानमानंद ब्रह्म अचक्षुरश्रोत्रमित्येतद्विपरीतात्मप्रतिपादनात् ॥ अस्यायमथः ॥ एकमेवेत्यादिश्रुत्यैवं तद्विपरीतात्मप्रतिपादनात् ॥ तस्मात् त्वदभिमतात् यजमानः सकाशात् विपरीतस्य श्रुद्धात्मनप्रतिपादनाद्धेतोः अवैपरीत्यमेव स्फुटीकरोति ब्रह्म एकं सजातीय भेदशून्यं यजमानस्य हि सजातीया बहवो यजमानास्तिष्ठति अद्वितीयं विजातीय भेदशून्यं यजमानस्य हि विजातीयाः शूद्रादयो बहवस्तिष्ठति ब्रह्म व्यापकमित्यादिप्रथमपत्रे उक्तमितिसंक्षेपः ॥
१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
ली. भट्ट कानजी पुरुषोत्तम मुकाम लींबडी द. पोतानां.
www.umaragyanbhandar.com