________________
वर मेकस्य सत्वस्य दत्ताह्यभयदक्षिणा । नतु विप्रसहस्रेभ्यो गोसहस्रमलंकृतम् ॥ ३२॥ अभय सर्वसत्वभ्योयोददाति दयापरः । तस्य देहेऽपि मुक्तस्य भयं नास्ति कुतश्चन ॥ ३३ ॥ हेमधेनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके प्राणिनामभयप्रदः ॥ ३४ ॥ महता मपि दानानां कालेन क्षीयते फलं ।
भीताभयप्रदानस्य क्षय एवन बिद्यते ॥ ३५ ॥ शान्ति पर्वणि-यथा मेन प्रियो मृत्युः सर्वेषां प्राणीनां तथा ।
तस्मान्मृत्यु भयान्नित्यं स्वातव्याः प्राणिनो बुधैः ॥ ३६ ॥ एकत कृतवः सर्वे समग्रवरदक्षिणाः। एकतो भवभीतस्य प्राणिनः प्राणरक्षणम् ॥ ३७॥ एकतः कांचनो मेरु बहुरत्ना वसुंधरा । एकतो भयभीतस्य प्राणिनः प्राणरक्षणं ॥ ३८ ॥ सप्तद्विपांसरत्नां च दद्यात् मेरुं सकांचनं यस्य जीवदया नास्ति सर्व मेतत् निरर्थकं ॥ ३९॥ खल्पायु विकलो रोगी विचक्षु बधिरः खलु वामनः पामनषंढो जायते सभवेभवे ॥ ४० ॥ अहिंसा परमो धर्म स्तथा ऽहिंसा परं तपः
अहिंसा परमं ज्ञानं अहिंसा परमं पदं ॥ ४१ ॥ इतिहासपुराणे तथा श्रीमद्भगवद्गीतायां ॥ अधोगच्छन्तितामसाः इत्यादि ॥ तथाच श्रुतिः॥ नतं वेदा यज इमा जजा कमंतरं बभूव नीहारेण प्रावृताजल्या चासुतुप उक्थ शासश्चरन्ति ॥ तथा च भागवते एकादशस्कन्धे ॥ हिंसाविहाराह्यालब्धैः पशुभिः स्वसुखेच्छया यजन्ते देवतायज्ञैः पितृभूतपतीन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com