________________
९७
इन्द्रियाणि पशून् कृत्वा वेदी कृत्वा तपोमयीं अहिंसा माहुतिं कृत्वा आत्मयज्ञं यजाम्यहम् ॥ ८ ॥ ध्यानानौ जीवकुंडस्थ दममारुतदीपिते । असत्कर्म समित्क्षेपे अग्निहोत्रं कुरुत्तमं ॥९॥ यूपं छित्वा पशून हत्वा कृत्वा रुधिरकर्दम । यद्येवं गम्यते सौख्यं नरकं केन गम्यते ॥ १० ॥ मातृवत् परदाराणि परद्रव्याणि लोष्टवत् । आत्मवत् सर्व भूतानि यः पश्यति सपश्यति ॥ ११ ॥ अहिंसा सर्वजीवेषु तत्वज्ञैः परिभाषितं । इदं हि मूलं धर्मस्य शेष स्तस्यैव वितरः ॥ १२॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्य सुसंयमः । मद्यमांसादि त्यागश्च तदै धर्मस्य लक्षणम् ॥ १३ ॥ यथा मम प्रियां प्राणास्तथान्यस्यापि देहिनः । इति मत्वा न कर्तव्यो घोरः प्राणिवधोबुधैः ॥ १४ ॥ प्राणिनां रक्षणं युक्तं मृत्यु भीताहिजंतवः। आत्मौपम्येन जानहि रिष्टं सर्वस्य जीवितं ॥ १५॥ उद्यतं शस्त्र मालोक्य विषाद यांति विह्वलाः । जीवाः कंपति संत्रस्ता नास्ति मृत्युसमभयं ॥ १६ ॥ कंटकेनापि विद्धस्य महती वेदना भवेत् । चक्रकुंतासियष्टयाद्यैः मार्यमाणस्य किं पुनः ॥ १७ ॥ दियते मार्यमाणस्य कोटिजीवित मेवच । धनकोटीः परित्यज्य जीवो जीवितु मिच्छति ॥ १८ ॥ योयत्र जायते जन्तु सतत्र रमते चिरं । अतःसर्वेषु जीवेषु दयां कुर्वति साधवः ॥ १९ ॥
१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com