________________
पार्श्वनाथ चरित्रे
दधानामोष्टबिम्बे च बिम्बीबिम्बे इवारुणे ||४७३|| यथाईन्यस्तरत्नालङ्कारां रत्नखनीमिव । रम्यां सुरासुरस्त्रीणां सौभाग्यैरिव निर्मिताम् ||४७४ || अगण्य पुण्यलावण्यां कन्यां स्त्रीरत्नमद्भुताम् । तेऽथास्मै प्राभृतीचक्रुः सर्वस्वमिव सञ्चितम् ||४७५ || (षभिः कुलकम् )
८०
अथान्यदपि रत्नादि ढौकितं खेचरेश्वरैः । तदादात् सर्वमूर्वीशश्चिन्हं चक्रिश्रियामिव ||४७६|| विसृज्यैतांस्ततश्चक्यनु चक्रं प्राप जाह्नवीम् । सेनां न्यवीविशत् तस्याः कूले कोमलबालुके ||४७७|| सेनान्याऽसाधयत् सोऽथ तस्या उत्तरनिष्कुटम् | गङ्गादेव्यपि सच्चके चक्रिणं सिन्धुवद् मुदा ||४७८|| व्यावृत्तोऽथ ततश्चक्रमनुगच्छन् क्षितीशिता । खण्डप्रपाताह्वां गुहां मृगेन्द्र इव लब्धवान् ॥ ४७९ ॥ तदीयाभ्यर्णसंन्यस्तसैन्यो वसुमतीपतिः । आराधयन् नाट्यमालदेवमष्टमभक्तभाग् ||४८०॥ स चागादुपदापाणिश्वत्रयादात् तां स्वकामिव । सत्कृत्य विससर्जेनं स्वयं च कृतपारणः ॥४८१ ॥ निदेशादथ भूभर्तुः पूर्ववत् पृतनापतिः । स्वगृहस्येव गुहायाः कपाटावुदघाटयत् ||४८२|| उद्घाटितकपाटां तां पूर्ववद् भूपपुङ्गवः । गुहामुल्लङ्घयामास केसरीव वनस्थलीम् ||४८३ ॥ निवेश्य सेनां जाह्नव्याः पुलिने पश्चिमे ततः । निधीन् नव समुद्दिश्य चक्री चक्रेऽष्टमं तपः ॥ ४८४॥ | पौषधान्त क्षमाजानिमभ्यगुर्निधयो नव । गुह्यकानां सहस्रेणाधिष्ठितास्ते पृथक् पृथक् ||४८५|| नैसर्पः पाण्डुकश्चैव पिङ्गलः सर्वरत्नकः ।
महापद्म-काल- महाकाल- माणव - शङ्खकाः |४८६|| उच्चविस्तारदैर्घ्येऽष्टनवद्वादशयोजनाः ।
ते समाः काञ्चनाश्चाष्ट चक्रोपरि प्रतिष्ठिताः ॥४८७॥ चक्रचन्द्रार्कचिह्नाश्च सम्पूर्णा रत्नराशिभिः । वर्यवैडूर्यमणिजैः कपाटैः पिहिताननाः ||४८८॥ तदधिष्ठायका देवाः स्वेषामेवाभिधाभिधाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com