SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रे गच्छंस्तेन प्रकाशेन गुहागर्भस्थिते उभे । उन्मग्नानिमग्ने नाम्ना निम्नगे प्राप भूपतिः ॥४४१ ॥ चक्री वार्द्धकिरत्नेन कृतेन रत्नसेतुना । उभे ते सरितौ तत्रोत्ततार वरलीलया ||४४२ || व्रजन् क्रमाद् नृपो गुहाप्राच्यद्वारमुपेयिवान् । तत्कपाटद्वयमपि भीत्येवोद्घाटितं क्षणात् ॥ ४४३ ॥ प्रथमं निरगाच्चक्री गुहातोऽर्क इवाभ्रतः । चक्ररुग्भिरिवाकृष्टा चक्रिसेनापि निर्ययौ || ४४४ || आयामविस्तरोच्चवे पञ्चाशद्वादशाष्टभिः । योजनैः प्रमितां गुहामतिचक्राम तां नृपः || ४४५ || उदग्विजयवर्षार्ध विजेतुं चक्रिणां वरः । प्राविशद्विषयान् म्लेच्छभूपानां तन्निवासिनाम् ||४४६|| ज्ञात्वा तेऽथ किरातास्तं चक्रवर्त्तिनमागतम् । जन्याय जज्ञिरे सज्जाः स्वदुलैर्निखिलैरपि ॥ ४४७ ॥ म्लेच्छैः सार्धं चत्रिचमूर्युयुधे विविधायुधैः । अथैषा तैः पराभूता मरालीव शकृत्प्रजैः ॥४४८॥ सेनानाथोऽथ तां सेनामनाथामिव विद्रुताम् । वीक्ष्याभूत् संयते सज्जो जितकाशी हि तत्र सः ॥४४९ ॥ सोऽष्टशताङ्गलं दैर्घ्य ऽशीत्यङ्गलं समुच्छ्रितम् । परिणाहे च वपुष पकन्यूनं शताङ्गलम् ॥४५० ॥ विंशत्यङ्गुलबाहुं च शुद्धलक्षणलक्षितम् । प्रशस्तद्वदशावतैर्भूषितं भूषणैरिव ॥ ४५९॥ मारुतमिव जङ्घालं कमलापीडमाह्वया । अभ्वरत्नं चमूनाथोऽध्यारोहद् व्यूढकङ्कटः ॥४५२॥ ( चतुर्भिः कलापकम् ) दैर्घ्यविस्तारयोर्माने पञ्चाशत्षोडशाङ्गलम् । अर्धाङ्गलं च बाहुल्ये सोऽसि रत्नमुपाददे ॥ ४५३॥ सुसज्जितचमूचकश्चमूनाथोऽथ सत्वरम् । गत्वा जिगाय तान् म्लेच्छान् कुञ्जरानिव केसरी ||४५४|| एतेभ्यः काञ्चनरत्नोपदामादाय सैन्यराट् । चक्रिणे ढौकयामास स्वौजोद्रोरिव मञ्जरी ।। ४५५ ।। प्रयाणैः कतिभिश्चक्री ततोऽगाद् निषधाचलम् । कृत्वाऽष्टमं रथारूढो ययौ च तदुपत्यकाम् ||४५६ || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com ७८
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy