________________
तृतीयः सर्गः।
७७ कुम्भिरत्नमथारोहत् केसरीव गिरेः शिरः॥४२४॥(पञ्चभिःकुलकम्) अर्ध सैन्यं समादाय चक्रिणश्च चमूपतिः। अस्थात् सिन्धुतटे भर्तुमिवैतां सैन्यपांशुभिः ॥४२५॥ यत्रोषस्युप्तधान्यानां निष्पत्तिः स्याद् दिनात्यये । विस्फूर्ति याति यत्स्फातिः क्षणाद् द्वादशयोजनम् ॥४२६॥ नदीनदनदीनाथमुख्याम्बूत्तारणक्षमम् । अस्माक्षीत् पाणिना चर्मरत्नं तत् पृतनापतिः ॥४२७॥ (युग्मम्) प्रासरचर्मरत्नं तद् युगपत् पुलिनद्वये । मुक्तं तत्सलिले गुह्यमिव दुर्जनचेतसि ॥४२८॥ उत्तीर्य तेन मार्गेण कुल्यामिव नदीमिमाम् । आससादापरं कूलं यशोमूलमिवात्मनः । ४२९।। निर्जित्य यवनांस्तत्र तेभ्यश्चादाय प्राभृतम् । तत्कीर्तिमिव तत्सर्वमढौकिष्टेष चक्रिणे ॥४३०॥ सच्चक्रे चक्रिणा चक्रपतिदेव इवात्मनः । स्वावासं सोऽप्यगात् तुष्टस्त्रैलोक्यैश्वर्यभागिव ॥४३१।। अथान्येयुः समाकार्य चक्रवर्ती चमूपतिम् । उद्घाटय तमिश्राया द्वारमैवं समादिशत् ॥४३२।। सेनानीरपि तत्राशु गत्वा चक्रेऽष्टमं तपः । अष्टमान्ते दधद् धूपघटी द्वारमुपेयिवान् ॥४३॥ आलोकमात्रतस्तस्यास्तत्कपाटौ प्रणम्य च । अष्टाह्रिकोत्सवं तत्र विदधे पृतनापतिः ॥४३४।। कपाटोद्घाटनं ज्ञात्वा विजयी विजयेश्वरः। करिरत्नं समारूढस्तमिश्राद्वारमाययौ ॥४३५।। भानुवद्भासुरं यक्षसहस्राधिष्ठितं नृपः । मणिरत्नमुपादत्त चतुरङ्गलमुल्वणम् ॥४३६।। दक्षिणे कुम्मिनः कुम्भे न्यस्य तद् मेदिनीधनः । अनुचक्रं तमिश्राया गुहाया द्वारमाविशत् ।।४३७॥ षट्दलं सेवितं यक्षसहस्रणाष्टकर्णिकम् । सूर्येन्दुकान्तकाकिणीरत्नं राजा ततोऽग्रहीत् ।।४३८|| गुहाभ्यर्णद्वये तेन गोमूत्रिकाक्रमाद् नृपः । अलिखद मण्डलान्याशु योजने योजने व्रजन् ॥४३९॥ धनुःपञ्चाशदायामान्युद्योतप्रवणानि च । जातान्यखिलान्येकेन पञ्चाशत्तकान्यन्यथा ॥४४०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com