________________
पार्श्वनाथचरित्रेद्रव्यादत्त इवैषोऽस्मि प्रेग्यस्ते काश्यपीपते !। तदादिश ममादेश किंकरः किं करोम्यहम् ? ॥४०८॥ रत्नालङ्काररत्नानि भूरिभद्रासनानि च । स सद्यः प्रददौ न्यासीकृतानीवावनीपतेः ॥४०९॥ प्रतिजग्राह राजाऽपि तेनोपदीकृतं मुदा। स्वामिप्रसन्नचिह्नमुपदादानमादिमम् ॥४१०॥ संमान्य विससर्जेनं गृहायातमिवातिथिम् । तत्र चक्रे पारणान्ते चक्री चाष्टाह्निक महम् ॥४११॥ चक्रानुगोऽचलच्चक्री तमिश्राह्वां गुहां प्रति । तत्सेना चाविशत् तत्र सार्थः सार्थपतेरिव ॥४१२॥ नृपालः स्मरणीकृतकृतमालोऽष्टमं व्यधात् । सोऽभ्यगादुपदापाणिश्चक्रिणं चलितासनः ॥४१३॥ तमिश्रायाः कन्दराया द्वारे द्वाःस्थ इवास्म्यहम् । सेवक बालकमिव मां प्रशाधि धराधव !॥४१४॥ इत्युक्त्वा सोऽर्पयामास तस्मै वसुमतीभुजे । युवतीरत्नयोग्यानि तिलकानि चतुर्दश ॥४१५॥ स्त्रीरत्नोचितदिव्यस्रग्वस्त्रालङ्करणानि च । तत्कोशाध्यक्ष इव स व्यतरत् पृथिवीभुजे ॥४१६॥ तदादानेन संमान्य व्यसृजत् तमिलापतिः। कृतभुक्तिश्च विदधेऽष्टाह्निकं स महोत्सवम् ॥४१७॥ अथान्येद्युः समाहूय चक्रवर्ती चमूपतिम् । गुरुः शिष्यमिवैवं तमादिदेश प्रसन्नवाग् ॥१८॥ सिन्धुरासिन्धुवैताव्यपर्यन्तं सिन्धुनिष्कुटम् । दक्षिणं चर्मरत्ननोत्तीर्यापगां वशीकुरु ॥४२९॥ चमूपतिगुणोपेतश्चमूपतिरसौ द्रुतम् । दामेव निदधे मूनि शासनं क्षितिशासिनः ॥४२०॥ सामन्तसैन्यैः सहितः प्रतिबिम्बैरिवात्मनः । ग्रैवेयकं दधत् कण्ठे जयश्रीदोलतामिव ॥४२१॥ बिभ्राणो हृदये हारं शोर्यपुजमिवामलम् । मौलो मौलिं दधानश्च प्रसादमिव चक्रिणः ॥४२२॥ निषङ्गो द्वौ दधत् पृष्ठे स्वदोर्दण्डाविवोद्भटौ । बिभ्रच्चापमधिज्यं च वक्रीकृतमिवाशनिम् ॥४२३० महादण्डधरो दण्डपतिदोर्दण्डचण्डिमा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com