________________
७४
पार्श्वनाथचरित्रेपूर्वेण विधिना चक्री वरदामसुरं प्रति । प्राहिणोद् बाणमात्मीयमिव सन्देशहारकम् ॥३७५॥ शान्तिं जगाम तन्मन्युराश्रुतैराशुगाक्षरैः । दिव्यमन्त्राक्षरैः सर्पन विषवेग इवोरगः ॥३७६॥ घरदामामरः सोऽथ तमादाय शिलीमुखम् । उपतस्थे महीनाथं दूताहूत इवानुगः ॥३७७॥ प्रीत्यैवानाथनाथस्त्वमनाथेन मयाऽधुना। दृष्टोऽस्यद्याटताऽटव्यां तापातेनेव भूरुहः ॥३७८॥ प्रादेयमिव तं बाणं मुक्त्वाऽस्याग्रे ददौ मुदा । दिव्यमेकं कटीसूत्रं सूतमंशोरिवांशुभिः ॥३७२ ।। प्राभृतीकृतवानेष पुरस्ताच्चक्रिणः पुनः । मुक्ताराशि पयोराशेः सर्वस्वमिव संहृतम् ॥३८०n अनुग्रहाय जग्राह तत्सर्व तेन ढौकितम् । तत्रैव स्थापयामास तं सामन्तमिवात्मनः ॥३८१॥ नत्वैनं तुष्टिपुष्टात्मा तत्रास्थाद् वरदामपः । पीतामृतमिव स्वामिप्रसादस्तुष्टिपुष्टिकृत् ।।३८२॥ स्कन्धावारं समागत्य राजा विजयिनां वरः। सार्धमात्मपरीवारैर्विदधेऽष्टमपारणम् ॥३८३॥ तत्रैव स्वीयर्सर्वद्धाऽष्टाह्निकं जगदुत्सवम् । उद्दिश्व वरदामेशं चक्री चक्रे महोत्सवम् ॥३८॥ ततः प्रभासमुद्दिश्य चक्री चक्रानुगोऽचलत् । प्रतीची प्रति प्राचीनहिंबन्धुरिवापरः ॥३८५॥ रथचीत्कारभेदेन भुवमाराटयन् पथि । दिनैः कतिपयैः प्राप तत्सैन्यं पश्चिमाम्बुधिम् ॥३८६॥ पूगीप्रेयालहिन्तालनालिकेरवनाकुले । मण्डपीकृतताम्बूलवल्लोपल्लवलालिते ॥३८७॥ निदधे च निजस्कन्धावारंवारितशात्रवः । तत्र भूमीभुजां मुख्यः पश्चिमाम्भोधिरोधसि ॥३८८॥ (युग्मम् ) प्राग्वत् तत्रापि शिबिरे पौषधं पौषधोकसि । चक्री चके प्रभासेशं विदधद् ध्यानगोचरम् ॥३८९॥ पौषधान्ते महीनाथो रथमारुह्य साश्वकम् । सत्वरं पश्चिमाम्भोधि सिन्धुपूर इवाविशत् ॥३९०॥ बाणं बाणासने पञ्चबाणरूपो निधाय सः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com