________________
तृतीयः सर्गः ।
स्वामिवैरिणि यः कोपाटोपोऽधात् स हि सेवकः ॥ ३५८ ॥ शुद्धधीधसखस्तस्य वीक्ष्य शेषारुणेक्षणम् । नाथं जग्राह तं बाणं स्वामिक्रोधाग्निवारिदम् ॥ ३५९ ॥ वाचयामास स प्रीतिवर्णान् निर्वर्ण्य पत्रिणम् । स्वर्णबाहुरयं चक्री त्वत्तः सेवां समीहते ॥ ३६० ॥ आदाय तमिषु मन्त्री समागात् स्वामिनो ऽन्तिकम् । बाणं च दर्शयामास क्रोधव्याधेरिवौषधम् ॥ ३६१ ॥ स्वर्णबाहुरयं चक्री त्वत्सेवा पूर्वकं विभो ! | त्वत्तः समीहते दण्डं तत् त्वं च प्रगुणीकुरु ॥३६२॥ श्रवणाद् मन्त्रिणो वाचो वीक्षणात् तस्य पत्रिणः । इयाय शान्ति तत्कोपोऽङ्गारराशिरिवाम्भसः ॥३६३॥ तदाज्ञामिव तं बाणमादायोपायनान्वितः । समेत्य मागधाधीशश्चक्रिणं प्राञ्जलिर्जगौ ॥ ३६४ ॥ दिष्ट्या दृष्टोऽसि दृष्ट्याऽद्य मया त्वं जगतीपते ! | निशा क्लेशातशोकेन कोकेनेव नभोमणिः ॥ ३६५॥ भूपकोटीर ! काटीरमिवाज्ञां तव मूर्धनि । अतः परं वहिष्यामि भृत्यं मामुररीकुरु ॥ ३६६॥ उक्त्ववमर्पयामास मार्गणं तं च चक्रिणे । कोटीरं कुण्डले द्वे च स सर्वस्वमिवात्मनः ॥ ३६७॥ जग्राह तदनुग्रहहेतवे प्राभृतं च तत् । राजा तं समभाषिष्ट भाषयाऽमृततुल्यया ॥ ३६८ ॥ तत्रैव मागधाधीशं यशः स्तम्भमिव स्वकम् । संस्थाप्य विससर्जेनं सैन्यं चागाद् महीशिता ॥ ३६९ ॥ अपसृत्य ततः स्थानाद् विहिताष्टमपारणः । चक्री चक्रे मागधेशोत्सवमष्टाह्निकं तदा ॥ ३७० ॥ ततो नभसि चलता चक्रेणार्कसनाभिना । वेत्रिणेवानुगतः स चक्रवर्त्ती चचाल च ॥३७१ ॥ प्रत्यहं पथि गच्छंश्व प्रयाणैरेकयोजनैः । चक्री वरदामतीर्थं प्रत्यगाश्चक्रपृष्ठगः ॥ ३७२ ॥ एलाकक्कोललवलीलवङ्गफलसङ्कलं ।
दक्षिणाम्भोधि पुलिने स स्वसैन्यं न्यवीविशत् ॥ ३७३ ॥ तत्राप्यष्टमभागेष पौषघव्रतमाददे । पौषधान्ते रथारूढोऽम्भाधिमध्ये समागमत् ॥ ३७४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
७३
www.umaragyanbhandar.com