________________
तृतीयः सर्गः ।
नूनमश्वापहारोऽसौ ममाभूद् भद्रकारणम् ॥ १९५ ॥ अश्वरूपं विधिर्नूनं कृत्वा चैतद्विजृम्भितम् । रत्नदोषीति दोषं स्वमपाकर्तुमिव व्यधात् ॥ १६६॥ ध्यात्वेति माह भूभर्ता भद्रे ! कुलपतिः व सः । सुघामिव स्वचक्षुर्भ्यां तद्दर्शनं पिबाम्यहम् ॥ १९७॥ तेनेत्युक्ते जगौ साऽथ तापसं गोलवोऽन्वगात् । तापसं प्रस्थितं चैकमितोऽन्यत्र यियासया || १९८ ।। अनुगम्य मुनिं दूरमधुनैष्यति गोलवः । अत्रान्तरेऽभ्यगार्द का जरती तत्र तापसी ॥ १६९ ॥ हे नन्दे ! विहितानन्दां पद्मामानय सत्वरम् । आगमे गोलवस्याथ जातोऽस्ति समयोऽधुना ॥ २००॥ इतश्च भूभुजः सैन्यं खुरलीमध्यसंस्थितम् । यातं वायुमिवाश्वं तं वीक्ष्य विस्मयमाप्तवत् ॥२०१ ॥ क्षणेनायं हयो दूरमादाय नृपतिं ययौ । सर्वेषां भूभुजां तेषां पश्यतामिव विस्मयम् ॥ २०२॥ तिरोभूतं भुवो नाथं विज्ञाय निखिला अपि । बभूवुर्भूभुजाः सर्वे गतस्वा इव दुःखिताः ॥२०३॥ किं कोऽपि स्वामिनः शत्रुरसुरः खेचरः सुरः । सप्तिरूप इहागत्यापज हे व्यंसको नृपम् ॥२०४॥ तदस्माकमपि क्ष्मापानुपदं गन्तुमर्हति । छायावनैव मुञ्चन्ति नाथं दुःखसुखाऽनुगाः || २०५ || ध्यात्वेति ते नृपाः सर्वे सर्वतः क्षिप्तचक्षुषः । अश्वस्याऽनुपदं जग्मुः पश्यन्तो गिरिगह्वरान् ||२०६|| भ्रमन्तो भूभुजास्तत्राऽरण्येऽश्वपदपद्धतिम् । अपश्यंस्तिमिरे घोरे प्रदीपकलिकामिव ॥ २०७॥ ततस्तदनुसारेण व्रजन्तस्ते महीभुजः । पवित्रितं स्वामिपादैस्तापसाश्रममभ्यगुः | २०८ || हेषाभिर्वाजिराजानां गजानां वर्यगजिभिः । सिंहनादेश्व वीराणां बलस्यन्दनचित्कृतैः ॥ २०९ ॥ भूयोभिः सैन्यसंमर्दादुत्थितैश्च रजोभरैः । चलनादचलायाश्चागतं सैन्यं नृपोऽविदत् ॥ २९०॥ ( युग्मम् ) शास्वाऽऽगतिमनीकिन्याः कन्यात्रास निबन्धनं ।
१ अनीकिनी = सेना ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
६३
www.umaragyanbhandar.com