________________
पार्श्वनाथचरित्रे
भुजिष्यो भूपतिर्वापि नालं रोद्धुमजायत । १७९ ।। तदा तत्र पुरे प्रौढमस्वास्थ्यं समजायत । भूयो भवति लोकानामस्वास्थ्यं राज्यविग्रहे ॥१८०॥ तदा तज्जननी रत्नावली भूमीशभामिनी । दुश्चेष्टितं तनूजानां वीक्ष्य चाऽजनि दुःखिनी ॥ १८९ ॥ ॥ सुतां निधिमिवाऽऽदाय पुरात् सा निर्ययौ द्रुतम् । स्वभ्रातुर्गोलवाख्यस्य मुनेश्वाश्रममभ्यगात् ॥ १८२ ॥ तत्राऽवर्धिष्ट बाला सा कल्पवल्लीव नन्दने । क्रमाच्च यौवनं प्राप लावण्यमिव मूर्तिमत् ॥ १८३॥ वरार्हो बालिकां तां च संदृश्य गोलवो मुनिः । वरचिन्तासमुद्रान्तर्निमग्नो निर्ममोऽपि हि ॥ १८४ ॥ यथैषाऽशेषवामाक्षीरत्नं मद्भगिनी सुता । नृरत्नं रत्नगर्भायां भावी कोपि वरस्तथा ॥ १८५ ॥ अभ्रच्छायानुकारिण्या कृतं मच्चिन्तयाऽनया । यदाख्या रत्नगर्भाया रत्नगर्भेति विश्रुता ॥ १८६॥ अथाऽन्यदाऽऽश्रमे तत्र ज्ञानवान् मुनिराययौ । गोलवोऽपि मुनेस्तस्याऽभ्यगादभ्यर्णमञ्जसा ॥ १८७॥ अप्राक्षीज्ज्ञानिनं तं च गोलवः परया मुदा । अस्याः कुमार्याः विवोढा भावी कः पुरुषोत्तमः १ ॥ १८८ ॥ मुनिरप्यभ्यधादत्र वज्रबाहुनृपात्मजः ।
६२
अस्ति भूभामिनीभालभूषणं भूमिवल्लभः ॥ १८९ ॥ चक्रवर्तिश्रियो यस्य पाणिपल्लवपल्वले । मल्लकीभूय भूयोऽपि पूरयिष्यन्ति दोहदम् ॥ १९०॥ शूकलापहृतः सोत्राऽऽगमिष्यति धराधवः । त्वश्चिन्ताकूलिनीकूलमुक् स्वं निष्यति षण्डवत् ॥१९१॥ अत्राऽऽगतस्य भविता कन्यकैषा कृशोदरी । भामिनी तस्य भूभर्तुः स्वाहा स्वाहापतेरिव ॥१९२॥ स्वामिन्नषा सरोजाक्षी कुमारी साऽमरीनिभा । वल्यादि सेचनासका क्रीडति स्वेच्छया वने ।।१९३।। स चायमाश्रमो यत्र गोलवस्तापसस्तपः । तपति स्वस्वसुः पुत्रीं लालयेल्लतिकामिव ॥१९४॥ | तथेत्युक्ते नृपो दध्यौ तद्वचोभिर्मुदं दधत् ।
१ मज्जसमूहवत् पतिष्यति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com