________________
तृतीयः सर्गः। रिपोरिवालिनश्चास्मात् पाहि पाहि सहायिनि ! ॥१३०॥ तत्पीडापीडिता साऽऽली प्रोवाच चतुरं वचः । कस्त्वां पातुमलं भद्रे ! स्वर्णबाहोरते पुरः ॥१३१॥ यः पाति स्वीयवेश्मेव निखिलं मेदिनीतलम् । शीतात इव तरणिं तमेव शरणीकुरु ॥१३२।। इत्याकर्ण्य वचस्तस्याः श्रवणामृतसन्निभम् । चमच्चके वज्रबाहुकुलाकाशनभोमणिः।। १३३॥ को वामूमुपप्लवं कर्तुमलंभूष्णुः शुभाशये ! । हराविव वनं वज्रबाहुपुत्रेऽवति क्षितिम् ॥१३४॥ एवं बुवाणो बिभ्राणो मुदं च परमां नृपः । प्रादुरासीत् तयोरने पिनाकीव जयोमयोः ॥१३५॥ पुरतः सहसा प्रेक्ष्य तं साक्षाद् मकरध्वजम् । ससंभ्रान्ते अभूतां ते च्छलिते इव रक्षसा ॥१३६।। परिचरतुन किंचिद् नोचतुश्चतुरं वचः । विस्मयस्मेरनयने जाते सुनयने उभे ॥१३७॥ मा भूयाद्भयमनयमित्तो मृग्योहरेरिव । इत्यभाषिष्ट भूभर्ता प्रेमगर्भतया गिरा ॥१३८॥ भो भद्रे ! विस्मयोन्मुद्रे ! भाविभद्रे तपोवने । अस्ति भद्रं तापसानां दुस्तपं तपतां तपः ॥१३९।। स्वयं पायितपयसः स्वपाणिकृतलालनाः । पादपाः सन्ति सशिवाः कच्चिद् वां बालका इव ॥१४०॥ नीवारैः कृतसम्भागा महाभागे ! मृगाः सुखम् । स्वपाणिविहितावाला वल्यः सन्ति शिवं शिवे ! ॥१४॥ पल्वलाम्भसि रूढानां धर्मवृद्धिविधायिनाम् । वीहीणामिव रम्याणां नीवाराणां शुभं शुभे ! ॥१४२॥ स्वयंसूत्रितसेतूनां स्वयसुप्तसरोरुहाम् । कुशले ! अस्ति कुशलं सरसां वयसामिव ॥१४३॥ आलवालपयःपानकारिणां नादहारिणाम् । घात वर्तितसौभाग्ये ! वर्तते वरपत्रिणाम्॥१४४॥ कल्याण्यावस्ति कल्याणं युवयोस्तपसि ध्रुवम् । इत्यपृच्छदतुच्छात्मा तयोर्भद्रं सभद्रयोः ॥१४५॥ अशक्ता वक्तुमप्येषा तथाप्यालन्य धीरताम् । घीमती धरणीनाथं सख्यूचे चतुरं वचः ॥१४६।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com