SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथ चरित्रे वरंगां मुमोच भूभर्ता खलमैत्रीमिवाऽखलः ॥८०॥ मुक्ति प्राप्य ततः सप्तिर्भवादिव भषी क्षणात् । गतिनिरोधं विदधे लब्धलक्ष इवाशुगः ॥ ८१ ॥ म्राम्यद्धमरशङ्कारैः कृताध्वन्याभिमन्त्रणम् । उल्ललल्लोलकल्लोलारब्धाध्वन्योपगूहनम् ॥ ८२ ॥ पद्मपत्रपतत्पिङ्गपरागैः क्लृप्तमण्डनम् । हंस हंस्युच्छलत्पक्ष व्यजनवीजितान्तरम् ॥ ८३ ॥ कोकलोककुलाकीर्णाऽसान्तरान्तरभूमिकम् । पीयूषोपमपानीयं भव्यभुक्तिभृतान्तरम् ॥८४॥ वीवाह मण्डपमिव पद्मिनीशस्तहस्तकम् । ददर्शेष विशामीशस्तत्र चैकं सरोवरम् ||८५॥ (चतुर्भिः कलापकम् ) मार्गश्रमसमुत्पन्नतापसन्तापविह्वलः । तद् दृष्ट्वा हृष्टवान् भूपो वप्पीह इव नीरदम् ||८६|| निर्गच्छत्पवनप्राथपथफूत्कारफेनलात् । · उत्ततार तुरङ्गात् स्म क्ष्मापतिः सरसीतटे ॥८७॥ ततः पर्याप्तमुत्तीर्य स्वस्थीभूतेन भूभुजा । पायितः शीतलं वारि वाहः स स्नानपूर्वकम् ॥ ८८|| ममज तदनु क्ष्मापो वारिणा श्रमवारिणा । स्नानं यदध्वनीनानामध्वश्रमविमुक्तिकृत् ॥८९॥ साधुस्वान्तमिव स्वच्छं पथश्रमविषौषधम् । भूपः पपौ हिमवारि चलचञ्चुरितन्दुभम् ॥९०॥ पार्थिवोऽथ पयः पीत्वा तत्पालीमारुरोह च । पश्यंस्तत्परितः क्रीडाकाननं श्रीमुखाननम् ॥९१॥ चम्पकाशोकपुन्नागनागनारङ्गसङ्गते । विकसत्कुसुमामोदोत्पादितघ्राणतर्पणे ॥ ९२ ॥ तत्रारामे तरोः सान्द्रस्कन्धे देव इवागतः । नृदेवोऽसौ विशश्राम विस्मरन् स्वौकसः सुखम् । ९३|| ( युग्मम् ) विश्रम्य क्षणमेकं स कौतुकोत्कण्ठिताशयः । चचाल पुरतः पश्यन् वनं निर्भीरिवाद्रिभित् ॥९४॥ तत्र ग्राममिवात्यन्तं मुनिलोकैः समाकुलम् । तापसाश्रममद्राक्षीद् गच्छन्नग्रे नराग्रणीः ॥ ९५ ॥ मृगैरुपासितानङ्के शयानैः शावकैरिव । जरद्भिश्च मृगैः श्टङ्गैर्धृष्टत्वचस्तरूनिव ||९६|| नीवारकणशादानं कुर्वतो वृषभानिव । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy