________________
तृतीयः सर्गः ।
वक्त्रस्य स्पर्धयेवास्य विस्तीर्णाऽऽसीदुरःस्थली । स्कन्धाभ्यां सार्धमेवास्य पीनतां प्राप च त्रपा ॥ ३२ ॥ अस्याभूद् मार्दवं पाणिपादेषु स्पर्धया हृदः । नासाङ्गुलीषु सारल्यं चम्पककलिस्पर्धया ॥ ३३ ॥ विकारै यौवनोद्भूतैरपराभूतचेतसा ।
लोकोत्तरा लौकिकाश्च प्राप्तास्तेनाखिला गुणाः ॥३४॥ अष्टाधिकैः सहस्रैश्च लक्षणैर्लक्षितः शुभैः । सुमेरुरिव मन्दाराङ्कुरैर्भाति स्म तद्वपुः ॥ ३५ ॥ अन्येद्युः प्राप्तसंवेगो वज्रबाहुः क्षितीशिता । प्रोवाच स्वात्मजं राज्यं दित्सुर्भारमिवात्मनः ॥ ३६ ॥ राज्यं वत्स ! गृहाणेदं शर्मणामिव कार्मणम् । अतः संयमसाम्राज्यं समादास्यामहे वयम् ॥३७॥ श्रुत्वैतद्वचनं वप्तुर्बाष्पप्लावितलोचनः । स्वर्णबाहुरभाषिष्ट पितरं प्रणताननः ॥ ३८ ॥ मा त्याक्षीः समयेऽमुष्मिस्तात ! मां पूतरोपमम् । बाला हि लाल्यमानाः स्युः पादपा इव शर्मणे ॥ ३९ ॥ ' हे तात ! त्वां विना धर्तु नालं प्राणानिमानहम् । प्रौढोऽपि पादपः पाथो विना जीवेत् कियद्दिनम् ? ॥४०॥ या शोभा तात ! मद्भाले भवञ्चरणरेणुभिः । चित्रिते सा न चाऽखण्डश्रीखण्डमृगनाभिभिः ॥ ४१ ॥ यत्सुखं त्वत्पदाम्भोजच्छायायां तस्थुषो मम । राकेन्दाविव विशदच्छत्रे मूर्ध्नि धृते न तत् ॥४२॥ यत् सुखं शृण्वतो वाक्यमेहं गच्छेति तावकम् । न तद् मे बन्दिनां वाचो जीव जीवेति जीवनाः ॥ ४३ ॥ त्वत्पुरस्तस्थुषा क्षोणौ यत्सौख्यमनुभूयते । न तद् मयाधिरूढेन रत्नसिंहासनोपरि ||४४ ॥ यत्सुखं धावतः पद्भ्यां त्वत्पुरः पत्तिवद् मम । प्रोन्मत्तसिन्धुरस्कन्धाधिरूढस्य न तद् मम ॥ ४५ ॥ हे तात ! भूमिभारोऽसौ भवदीयशिशोर्मम । नोचितः कुञ्जरस्येव सन्नाहो रसना लिहः ॥४६॥ बालं मां मुञ्चतस्तव चेत् कृपा हृदिनो न च । का तदा व्रतमर्यादा दयालोः प्राणरक्षणे ॥४७॥ राज्यं राजशिरोरत्नं भुजाभ्यामर्जितं त्वया ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
५३
www.umaragyanbhandar.com