________________
प्रस्तावः।
भवान् विद्वद्वर्यप्रतापमुनिःनैककार्यक्षमा श्रीहर्षपरिषदं प्रतिष्ठाप्यतत्र प्रथम ग्रन्थोद्धारधूर्वहां "मुनिश्रीमोहनलालजीजैनग्रन्थमाला" इतिनाम्नी संस्थां संस्थाप्यादौ च श्रेष्ठिवयंपन्नालालतनूजनुषस्तत्रभवतः श्राद्धकुलभूषणस्य देवभूयं गतस्य श्रेष्ठिश्रीचुन्नीलालस्य निपीताहततत्त्वाभिः परमश्राविकाभिः श्रीमतीभिः “ भीखी" इत्यन्वर्था वर्णमालां पावयन्तीभिः पत्नीभिः साहाय्यं समुपलभ्य स्वगुरुं संस्थासंस्थापकत्वेन प्रसिद्धय ग्रन्थं च पार्श्वनाथचरितनामानं प्रकटय्य प्रसिद्धिमनीनयत् । ___ एतस्याश्च प्रथमाङ्कभूतस्य मृङ्गाकस्येवाखण्डानन्दपीयूषसन्दोहवर्षिणो योगिजनचित्तवृत्तेरिव स्वभावसरलस्य बाल्ये रचितस्याप्यहमहामिकया बालपीयूषदीधितिदर्शनस्य श्रीपाश्वनाथचरितस्य ग्रन्थितारः कुन्देन्दुकिरणहरहासधवलकीर्तयोऽनवद्यचातुर्वैद्यवैशारद्यहुंकारतर्जितागण्यतीर्थान्तरीयविद्वद्वन्दाः तपागच्छगगनाङ्गणहेलयः श्रीहेमविजयमणयः कदा कियतीं च मेदिनीमण्डली मण्डयामासिवांस इति बुभुत्समानानां जिज्ञासामपनोदयितुं स्वयमेव कविकुञ्जराः स्वकृतग्रन्थोपनिबद्धैस्तैस्तैरुल्लेखैः समसुसूचन सप्तदशशताब्दिरूपं स्वसत्तासमयम्, तथाहिअस्मिंश्चरित्रे'दृक्-कृशानु-रस-सोममितेऽन्देशकमन्त्रिणि दिने द्वयसम्झे हस्तभे च बहुलेतरपक्षे फाल्गुनस्य, चरितं व्यरचीदम्" ।।
कथारत्नाकरेऽपि"अहिमनगरद्रङ्गे वर्षेऽश्वे-षु-रसा-ऽवनौ । मूलमार्तण्डसंयोगे चतुर्दश्यां शुचौ शुचे ।। श्रीऋषभशतके च
"श्रीहीरहीरविजयवतिराजपट्टपद्मांशुमद्विजयसेनमुनीन्द्रराज्ये । श्रीस्तम्भतीर्थनगरे रस-बाण-भूपवर्षे समाप्तिमगमच्छतकं सदर्यम्" ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com