SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रे प्राणिनां प्राणनान्दोलं प्राशंसद्धजयोलम् ॥२९३॥ मयैकेनैव बाणेन हतोऽयं कुञ्जरोपमः । अभवं दोष्मतां मुख्यः प्रबलैर्दोबलैरतः ॥२९४॥ ततो धनुर्धरंमन्यः स्वात्मानं शबरब्रुवः । नित्यं बभ्राम पापर्द्धिः पापद्धौ त्रासयंत्रसान् ।।२९५॥ भृत्वाऽऽत्मानं महापापैः प्रसेवकमिवाश्मभिः । कालेन कियताप्येष कुरङ्गः प्राप पश्चताम् ।।२९६।। ऋषिघातात् कृतोत्कृष्टपापपूरेण पूरितः। उत्कृष्टायुस्ततो माघवत्यां पृथ्व्यामगादसौ ।।२९७। वेदना भूरिशो भुञ्जन शीताः शीतार्तिविह्वलः । अनैषीदेष समयानप्रतिष्ठानप्रस्तरे ॥२९८॥ ललिताङ्गः सुपर्वापि प्राप्य वैभवमद्भुतम् । ग्रैवेयकोचितानन्दकन्दभूः समजायत ॥२९९॥ विषया भवविषया हित्वा तं ययुरन्यतः । पूर्वजन्मार्जितद्वेषरुषया रुषिता इव ॥३०॥ कषायाः क्षीणतां प्रापुः सर्वे तस्य सुधान्धसः । पूर्वारब्धमहाध्यानहिमानीज्वालिता इव ॥३०॥ कदाचिद् विदधत् तत्त्वविचाररचनाचिरम् । कदाचित् श्लाघयन् श्राद्धान् कुर्वतः पात्रपोषणम् ॥३०२॥ यतीनत्युग्रचारित्रान् कदाचिदनुमोदयन् । कदाचिद् विदधद् ध्यानं सिद्धानां धर्मधीरधीः ।।३०३।। अनन्तशर्मनिर्मग्नो विदग्धोऽप्रविचारवान् । इत्यसौ ललिताङ्गाख्यो लेखः कालमवाहयत् ॥३०५॥ (त्रिभिर्विशेषकम् ) धीविद्युद्गतिनन्दनोऽच्युतसुरः श्रीवज्रनाभावनी. जानिर्निर्जरकुअरोऽजनि ततो ग्रैवेयके मध्यमे। एवं चारुचतुर्भवोद्भवमहाभूतिप्रभूताद्भुतः पार्हिचरिते समाप्तिमगमत् सा द्वितीयोऽनघः॥३०५॥ इतिश्रीतपागच्छाधिराजभट्टारकसार्वभौमश्रीहीरविजयसूरिश्रीधिजयसेनसूरिराज्ये समस्तशास्त्रसुविहितावतंसपण्डितकोटीकोटीरहीर पं० श्री कमलविजयगणिशिष्यभुजिष्यगण्हेमविजयविरचिते श्रीपाश्वनाथचरित द्वितीयः सर्गः सम्पूर्णः ॥ छ। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy