________________
द्वितीयः सर्गः ।
कोदण्डपाणिः परमाधार्मिकस्येव नन्दनः । भिल्लोsपि निरगात् तिर्यग्नारकत्रा सकारणम् ॥२७७॥ आगच्छन् सम्मुखः साधुईदशेऽनेन पापिना । ममा मङ्गलमद्यैष चिन्तितं चति दुर्धिया ||२७८ ॥ कोऽयं मुण्डः प्रचण्डात्मा प्रोद्दण्डाखण्डविग्रहः ? | गच्छतो मम पापद्धवन्तराय इवान्तरे ॥ २७९ ॥ चेदहं स्खलितोऽनेन मृगयार्थ व्रजन् वने । तदाहमप्यमुं मुण्डं स्खलयामि भुजङ्गवत् ॥ २८० ॥ पीतश्वापदरक्तानां रक्तानां मनुजाऽसृजि । पृषत्कानां ममाद्यैष भूयाद् भुक्तिर्मुनिब्रुवः ॥२८१ ॥ एवं दुर्ध्याननद्धात्मा दुर्बुद्धिः शबरब्रुवः । वाणेन निजघानैनमायान्तं यतिपुंगवम् ||२८२ ॥ प्रहरस्य प्रहारेण तेन प्राणान्तकारिणा । ज्ञात्वाऽऽयुषोऽवधिं दध्यौ संयमी संयमाशयः ॥ २८३|| मा कुप्यस्त्वं किरातेऽस्मिन्नात्मन् ! वधनिबन्धने । कारणं सुखदुःखेषु प्राणिनां हि पुराकृतम् ||२८४|| भवाब्धौ जन्म सुप्रापं दृषत्खण्डमिवाटताम् । चिन्तारत्नमिवाप्रापं मानुजं जन्म जन्मिनाम् ||२८५ | तत्प्राप्तावपि दुष्प्रापं कुलमार्यजनोचितम् । कुलेऽपि धर्मसामग्री मरुच्छायेव दुर्लभा ॥ २८६ ॥ सामग्र्यामपि च श्रद्धा ग्रीष्मेऽम्भ इव दुर्लभा । श्रद्धाङ्कुरे सति प्रौढे दुष्प्रापोद्योग योग्यता || २८७ ॥৷ उद्यमेऽपि हि निःशेषविरतिर्दुर्लभा भृशम् । आत्मन् ! सापि त्वया लब्धा क्षुधितेनेव भोजनम् ||२८८ ॥ अमुष्मिन् शबरे रोषोऽधुना चेद् भविता तव । सलग्धमपि तत्सर्व वृथाऽमेघ इवाङ्करः ||२८९ || इत्यात्मानमभिषिच्य शमीशः शमवारिणा । व्यधादाराधनां सिद्धसाक्षिकं साक्षराग्रणीः ।। २९० ।। मनोवाक्तनुमूलानि पापान्यालोचयन् पुनः । विपद्य वज्रनाभर्षिर्मध्यप्रैवेयकं ययौ ॥ २९९ ॥ विद्युत्पुञ्ज इवोद्दामधामधीसमलङ्कृतः । ललिताङ्ग इति ख्यातो ललिताङ्गः सुरोऽजनि ॥ २९२ ॥ कुरङ्गः स कुरङ्गात्मा वीक्ष्यैनं पतितं यतिम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
४९
www.umaragyanbhandar.com