________________
द्वितीयः सर्गः।
४३ तपोभिर्दुस्तपैरात्मा भवद्भिः कृशितश्चिरम् । तत्फलं चेह चेत् तर्हि स्युर्वः साम्राज्यसम्पदः ॥१७९॥ हत्वाऽन्यप्राणिनां प्राणानस्माभिः पोष्यते वपुः । तत्फलं चत् तदास्माकं रङ्कत्वमिह जायते ॥१८॥ देवानामप्यलभ्ये यद् भालभागे च भूभुजाम् । मणिदृषन्मयोऽप्यस्थात् पुण्यं तेनात्र किं कृतम् ? ॥१८॥ उत्पन्नेऽपि शरीरेऽपि चारुचन्दनचर्चिते । मलोऽसौ त्यज्यते लोकैः पापं तेनात्र किं कृतम् ? ॥१८२॥ यदुक्तमयमात्मा स्वकृतभोक्ताऽत्र तन्मुधा। धर्मिणाऽर्मिणा चात्र कृतं स्वं स्वं न दृश्यते ॥१८३।। कृतानुसारतः प्राप्तिश्चेति यत् तदसंगतम् । कृतेन केनेन्द्रचापःप्राप सौन्दर्यमद्भुतम् ? ॥१८४॥ शुभाशुभं स्वं तन्मन्ये यत्प्रत्यक्षं, न चेतरत् । विमुच्योत्सङ्गगं गर्भगतेहा नेह शोभना ॥१५॥ अन्योऽध्यात्मनि यः कश्चिद् गुणारोपो मुधैव सः। तदभावात् तयोर्यस्मादाधाराधेयता स्मृता ॥१८६॥ गुरुरप्याह शान्तात्मा पीयूषसदृशा गिरा । भद्र ! निस्तन्द्र ! भद्राय ऋणु स्वोक्तेः सदुत्तरम् ॥१८७॥ अध्यात्मज्ञानगम्योऽयमात्मा मान्यो मनीषिणा । सुखी दुःख्यस्म्यहं चैव प्रत्ययो जीवसूचकः ॥१८८॥ शरीरं मामकं चैतद् मतिरेषा वपुष्मताम् । कोऽपि देहान्तरे देही संभाव्यो देहभेदभाग् ॥१८९॥ देहे गेहे धने धान्ये द्विपदे च चतुष्पदे । विना नेतुर्न शक्नोति कर्तुमङ्गीकृति परः ॥१९०॥ विद्यते स्वशरीरे चेदात्माऽसौ सुखदुःखभाक् । परेषामपि कायेऽयं भविता श्रितविभ्रमः ॥१९१॥ संवेत्ता सुखदुःखानामात्मैवास्ति तनुन हि । यदभावे न शीतोष्णक्षुत्तृषां वेत्ति यत् तनुः ॥१९२॥ अस्त्यात्मनोऽस्य सद्भावे परलोकगतिध्रुवम् । वस्तुनोऽपि विनष्टस्य पर्यायेण पुनर्जनिः॥१९३॥ चेतनं चेतनाऽप्येति प्रेत्यात् कान्तिरिवारुणम् । मुखे क्षिपति वक्षोजमनुक्तोऽपि यतः शिशुः ॥१९४॥ अचेतनभ्यो भूतेभ्यश्चेतना चेष्ट्यते कथम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com